Īśāvāsyopaniṣat 12, 13 and 14
अन्धन्तमः प्रविशन्ति येऽसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥१२॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्। इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ॥१३॥
सम्भूतिं च विनाशं यस्तद्वेदोभयं सह। विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥
Īśā.Bhāshya 14
एवं सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः। तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम्॥ नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात् सर्वगुणात्मकम्। सर्वकर्तारमीशेशं सर्वसंहारकारकम्॥
यो वेद संहृतिज्ञानाद् देहबन्धाद् विमुच्यते। सुखज्ञानादिकर्तृत्वज्ञानाद् तद्व्यक्तिमाव्रजेत्॥
सर्वदोषविनिर्मुक्तं गुणरूपं जनार्दनम्। जानीयान्न गुणानां च भागहानिं प्रकल्पयेत्॥
न मुक्तानामपि हरेः साम्यं विष्णोरभिन्नताम्। न वै प्रचिन्तयेत् तस्माद् ब्रह्मादेः साम्यमेव वा॥
मानुषादिविरिञ्चान्तं तारतम्यं विमुक्तिगम्। ततो विष्णोः परोत्कर्षं सम्यग् ज्ञात्वा विमुच्यते॥
इति कौर्मे ॥१२-१४॥