Īśāvāsyopaniṣat 15, 16, 17, 18 and 19
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्। समूह तेजो यत्त्ते रूपं कल्याणतमं तत्त्ते पश्यामि ॥१६॥
योऽसावसौ पुरुषः सोऽहमस्मि ॥१७॥ वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ॥१८॥ ॐ क्रतो स्मर कृतं स्मर। ॐ क्रतो स्मर कृतं स्मर ॥१९॥
Īśā.Bhāshya 15, 16, 17, 18 and 19
पात्रं हिरण्मयं सूर्यमण्डलं समुदाहृतम्। विष्णोः सत्यस्य तेनैव सर्वदाऽपिहितं मुखम्॥ तत्तु पूर्णत्वतः पूषा विष्णुः दर्शयति स्वयम्। सत्यधर्माय भक्ताय प्रधान ज्ञानरूपतः। विष्णुरेकऋषिर्ज्ञेयो यमो नियमनाद् हरिः। सूर्यः सः सूरिगम्यत्वात् प्राजापत्यः प्रजापतेः। विशेषेणैव गम्यत्वात् अहं चासावहेयतः। अस्मि नित्यास्तितामानात् सर्वजीवेषु संस्थितः॥ स्वयं तु सर्वजीवेभ्यो व्यतिरिक्तः परो हरिः। स क्रतुर्ज्ञानरूपत्वादग्निरङ्गप्रणेतृतः॥
इति ब्रह्माण्डे।
सत्यं ब्रह्म हृदये धारयतीति सत्यधर्मा। एकोऽसौशब्दः प्राणे स्थित इति। यस्मिन् अयं स्थितः सोऽप्यमृतः। किमु परः। अः ब्रह्मैव निलयनं यस्य वायोः सोऽनिलम्।
अतिरोहितविज्ञानाद् वायुरप्यमृतः स्मृतः। मुख्यामृतः स्वयं रामः परमात्मा सनातनः॥
इति रामसंहितायाम्।
भक्तानां स्मरणं विष्णोः नित्यज्ञप्तिस्वरूपतः। अनुग्रहोन्मुखत्वं तु नैवान्यत् क्वचिदिष्यते॥
इति ब्रह्मतर्के ॥१७-१९॥