Bhagavad Gīta Bhāshya and Tātparya
B.G 11.32
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥३२॥
Gīta Tātparya 11.32
"कालः कलितसम्पूर्णसद्गुणत्वात् जनार्दनः। संहारात् सर्ववित्त्वाद् वा सर्वविद्रावणेन वा॥"
इति महावराहे।
अपिशब्देन भ्रात्रादीन् अपि ऋते ॥३२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.