B.G 2.44
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥
Gīta Tātparya 2.44
अव्यवसायबुदि्धः केषाम्। यां वाचमविपश्चितः प्रवदन्ति तया अपहृतचेतसाम् बुद्धिः व्यवसायात्मकत्वेन समाधाने न वर्तते।
"यथा वस्तु यथा ज्ञानं तत्साम्यात् सममीरितम्। विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः॥ न तद्भवत्यसद्वाक्यैः विषमीकृतचेतसाम्। स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम्॥ न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम्। फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम्॥ भोगैश्वर्यादिगत्यर्थं क्रियाबाहुल्यसन्तताम्। बहुसंसारफलदामन्ते तमसि पातिनीम्॥ यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः। तया सम्मोहितधियां कथं तत्त्वज्ञता भवेत्॥"
- इति च ॥
"इष्टापूर्तं मन्यमाना वरिष्ठं नान्यत् श्रेयो वेदयन्ते प्रमूढाः। नाकस्य पृष्ठे सुकृते तेनुभूत्वा इमं लोकं हीनतरं वा विशन्ति॥"
- इति च आथर्वणश्रुतिः।
"वेदवादरतो न स्यात् न पाषण्डी न हैतुकी॥"
-इति हि भागवते।
"ये न जानन्ति तं विष्णुं याथार्थ्येन संशयाः। जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः॥ निर्णेतॄणामभावेन केवलं ज्ञानवर्जिताः। ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम्॥ यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम्। ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं नतु॥ विशेष एव तेषां तु तदन्येषां विपर्ययः। ये तु भागवताचार्यैः सम्यग् यज्ञादि कुर्वते॥ बहिर्मुखा भगवतो निवृत्ताश्च विकर्मणः। दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा॥ यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च। तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः॥"
-इति नारदीये ॥ ४२-४४ ॥