Bhagavad Gīta Bhāshya and Tātparya
B.G 17.27 and 28
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते। कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥२७॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥२८॥
Gīta Tātparya 17.27 and 28
तत्सम्बन्धित्वादेव कर्मादि सत्। ओं तत्सदिति नाम्नां विष्णौः प्रसिद्धत्वात्।
"स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते। अनोऽङ्कृतं आसुरं कर्म"
इति श्रुतेः अनोङ्कृतस्य आसुरत्वप्रसिद्धेः।
"अनर्थज्ञोदितो मन्त्रो निरर्थस्त्राति मानतः। यन्मन्त्रस्तेन कथितो मन्त्रार्थो ज्ञेय एव तत्॥"
इति पैङ्गिश्रुतेश्च।
तदर्थत्वेन फलानभिसन्धिपूर्वककर्मण एव सात्विकत्वाच्च। तद्भक्त्या तत्स्मरणपूर्वकमेव सदन्यदसदेवेति भावः। राजसस्यापि असदन्तर्भाव एव। विष्णुश्रद्धारहितत्वात्॥
"सात्त्विकं मोक्षदं कर्म राजसं सृतिदुःखदम्। तामसं पातदं ज्ञेयं तत्कुर्यात् कर्म वैष्णवम्॥"
इत्याग्नेये॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तदशोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.