Bhagavad Gīta Bhāshya and Tātparya
B.G 17.26
सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२६॥
Gīta Bhāshya 17.26
सद्भावशब्देन प्रजननं सूचितम्। ओमित्युक्त्वा अनभिसन्धाय फलं यज्ञदानतपआदिकृतां अतिप्रीतेः नाम साम्यात् ब्रह्मैव निष्पादितं भवतीत्याशयः। तथाच ऋग्वेदखिलेषु-
ओं यज्ञाद्या निष्फलं कर्म तत् स्यात् सद् वै तदर्थं कर्मेति वदन्ति वेदाः। तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्य॥
इति ॥२६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये सप्तदशोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.