Bhagavad Gīta Bhāshya and Tātparya
B.G 16.08
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥८॥
Gīta Bhāshya 16.08
जगतः सत्यं प्रतिष्ठा ईश्वरश्च विष्णुः। तद्वैपरीत्येन आहुः।
"तस्योपनिषत् सत्यस्य सत्यमिति। प्राणा वै सत्यं। तेषां एष सत्यम्॥"
इति हि श्रुतिः।
"द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च स्थितं च यच्च सच्च त्यच्चेति। तस्योपनिषत् सत्यस्य सत्यमिति एष ह्येव एतत् सादयति यामयति चेति॥"
इति च प्राचीनशालाश्रुतिः।
परस्परसम्भवो ह्युक्तः- "अन्नाद्भवन्ति भूतानि" इत्यादिना ॥८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.