Bhagavad Gīta Bhāshya and Tātparya
B.G 16.01, 02 and 03
श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥२॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥३॥
Gīta Bhāshya 16.01, 02 and 03
पुमर्थसाधनविरोधीनि अनेनाध्यायेन दर्शयति-
तपो ब्रह्मचर्यादि।
"ब्रह्मचर्यादिकं तपः"
इत्यभिधानम् ॥१॥
पैशुनं परोपद्रवनिमित्तदोषाणां राजादेः कथनम्।
"परोपद्रवहेतूनां दोषाणां पैशुनं वचः। राजादेस्तु मदाद्भीतेरदृष्टिर्दर्प उच्यते॥"
इत्यभिधानात्।
लौल्यं रागः।
रागो लौल्यं तथा रक्तिः
इत्यभिधानात्।
अचापलं स्थैर्यम्।
चपलश्चञ्चलोऽस्थिरः
इत्यभिधानात् ॥२॥
क्षमा तु क्रोधाभावेन सह अपकर्तुः अनपकारः।
"अक्रोधो दोषकृच्छत्रोः क्षमावान् स निगद्यते।"
इत्यभिधानात् ॥३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.