Bhagavad Gīta Bhāshya and Tātparya
B.G 12.05
क्लेशोऽधिकतरस्तेषां अव्यक्तासक्तचेतसाम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥५॥
Gīta Bhāshya 12.05
कथं तर्हि त्वदुपासकानां उत्तमत्वं इत्यत आह - क्लेश इति।
अव्यक्ता गतिः दुःखं ह्यवाप्यते। गतिः मार्गः। अव्यक्तोपासनद्वारकः मार्गः दुःखः अवाप्यते इत्यर्थः।
अतिशयोपासन सर्वेंद्रियातिनियमन सर्वसमबुद्धि - सर्वभूतहितकरत्व अतिसुष्ठ्वाचार सम्यग्विष्णुभक्त्यादिसाधन सन्दर्भं ऋते नाव्यक्तापरोक्ष्यम्। तद्रुते च न विष्णुप्रसादः। सत्यपि तस्मिन् न सम्यग् भगवदुपासनं ऋते। नर्ते च तं मोक्षः। विना अव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति क्लेशिष्टोयं मार्ग इति भावः।
तथापिअपरोक्षी कृताव्यक्तानां सुकरं भगवदुपासनं इत्येताव प्रयोजनम्। तत्रापि यः अव्यक्तापरोक्षे प्रयासः तावता प्रयासेन यदि भगवन्तं उपास्ते ऊनेन वा तदा भगवदापरोक्ष्यमेव भवति इति द्वितीयं अधिकम्।
इंद्रियसंयमाद्यूनभावे अत्युपासकस्यापि देवी नातिप्रसादमेति। देवस्तु तानि साधनानि भक्तिमतः स्वयमेव प्रयत्नेन ददातीति सौकर्यं इति भक्तानां भगवदुपासने। इतरत्र तु क्लेशोऽधिकतरः। तदेतत् सर्वं "पर्युपासते", "सन्नियम्य", "अधिकतरः" इति परि-सम्-तरप् शब्दैः प्रतीयते।
सामवेदे माधुच्छन्दसशाखायां चोक्तम्-
"भक्ताश्च योऽतीव विष्णावतीव जितेंद्रियाः सम्यगाचारयुक्ताः। उपासते तां समबुद्धयश्च तेषां देवी द्रुश्यते नेतरेषाम्॥ द्रुष्टा च सा भक्तिमतीव विष्णौ दत्वोपास्तौ सर्वविघ्नांन् छिन्नत्ति। उपास्य तं वासुदेवं विदित्वा ततस्ततः शान्तिमत्यन्तमेति॥"
इति।
उक्तं च सामवेदे आयास्यशाखायाम्-
"प्रसन्नो भविता देवः सोऽव्यक्तेन सहैव तु। यावता तत्प्रसादो हि तावतैव न संशयः। न तत्प्रसादमात्रेण प्रीयते स महेश्वरः। तस्मिन् प्रीते तु सर्वस्य प्रीतिस्तु भवति ध्रुवम्॥ यद्यप्युपासनाधिक्यं तथापि गुणदो हि सः। मुक्तिदश्च स एवैको नाव्यक्तादेस्तु कश्चन॥"
इति।
"ममात्मभावमिच्छन्तो यतन्ते परमात्मने॥"
इति च मोक्षधर्मे श्रीवचनम्।
"धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि। प्रश्रिते दानशीले च सदैव निवसाम्यहम्॥"
इति च।
महतः परं तु ब्रह्मैव। तथा हि भगवता सयुक्तिकं अभिहितम्-
"वदतीति चेन्न प्राज्ञोहि", "त्रयाणामेव चैव मुपन्यासः प्रश्नश्च"
इत्यादि।
तं इति पुल्लिङ्गा च्चैतत्सिद्धिः। महतः परत्वं तु अव्यक्तपरस्य भवत्येव। तथाच आग्निवेश्यशाखायाम्-
"अनाद्यनन्तं महतः परं ध्रुवं इति परो देवो पुरुहोतो महत्तः"
इति।
न च अव्यक्तरूपं भगवता निषिद्धम्। भारतादौ साधितत्वात्। "शरीररूपकविन्यस्तगृहीतेः" इत्यादौ तु साङ्ख्यप्रसिद्धं निषिद्ध्य वैदिकमव्यक्तमेवोक्तम्। तथा च सौकरायणश्रुतिः-
"शरीररूपिका साऽशरीरस्य विष्णोर्यतः प्रिया सा जगतः प्रसूतिः॥"
इति।
सुव्रतानां क्षिप्रं महदैश्वर्यं ददाति देवी, न देव इति विशेषः -
"सुवर्णवर्णां पद्मकरां च देवीं सर्वेश्वरीं व्याप्तजडां च बुद्ध्वा। सैवेति वै सुव्रतानां तु मासान्महाभूतिं श्रीस्तु दद्यान्न देवः॥"
इति ऋग्वेदखिलेषु ॥५॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.