Bhagavad Gīta Bhāshya and Tātparya
B.G 9.29
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९॥
Gīta Bhāshya 9.29
तर्हि स्नेहादिमत्त्वात् अल्प भक्तस्यापि कस्यचित् बहु फलं ददासि। विपरीतस्यापि कस्यचित् विपरीतं इत्यत आह - समोऽहं इति। तर्हि न भक्तिप्रयोजनं इत्यत आह - ये भजन्तीति॥
मयि ते तेषु चापि अहं इति - मम ते तेषां अहं वशः इति। उक्तं च पैङ्गिखिलेषु -
"ये वै भजन्ते परमं पुमांसं तेषां वशः स तु ते तद्वशाश्च।"
इति।
तद्वशा एव ते सर्वदा। तथापि बुद्धिपूर्वाबुद्धिपूर्वकत्वेन भेदः। उद्धवादिवत् शिशुपालादिवच्च। तच्चोक्तं तत्रैव-
"अबुद्धिपूर्वाद् यो वशस्तस्य ध्यानात् पुनर्वशो भवते बुदि्धपूर्वम्"
इति ॥२९॥
Gīta Tātparya 9.29
नास्य भक्तोऽपि यो द्वेष्यो न चाभक्तोऽपि यः प्रियः। किन्तु भक्त्यनुसारेण फलदोऽतः समो हरिः॥
इति पाद्मे।
प्रीत्या मयि ते ॥२९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.