B.G 9.30 to 33
अपि चेत् सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥३०॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥
Gīta Bhāshya 9.30 to 33
न भवत्येव प्रायः तद् भक्तः सुदुराचारः। तथापि बहुपुण्येन यदि कथञ्चित् भवति तर्हि साधुरेव स मन्तव्यः ॥३०॥
कुतः क्षिप्रं भवति धर्मात्मा। देवदेवांशादिषु एव च तद्भवति। उक्तं च शाण्डिल्यशाखायाम् -
"नाविरतो दुश्चरितान्नाभक्तो नासमाहितः। सम्यग् भक्तो भवेत् कञ्चित् वासुदेवेऽमलाशयः। देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः॥
इति।
अतः अन्यः कश्चित् भवति चेत् डाम्भिकत्वेन सोनुमेयः। साधारणपापानां तत्सन्गात् महत्यपि कथञ्चित् भक्तिः भवति। साधारणभक्तिर्वा इतरेषाम् -
"स शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य भक्तिः।"
इति श्रीविष्णुपुराणे।
Gīta Tātparya 9.30 to 33
"पापादिकारिताश्चैव पुंसां स्वाभाविका अपि। विप्रत्वाद्याः तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः॥
यान्ति स्त्रीत्वं पुमांसोपि पापतः कामतोपि वा न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः॥
पुंसा सहैव पुन्देहे स्थितिः स्याद् वरदानतः। तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः॥
सर्वेषामपि जीवानामन्त्यदेहो यथा निजः। मुक्तौ तु निजभावः स्यात् कर्मभोगान्ततोपि च॥"
इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् ॥३२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये नवमोध्यायः ॥