B.G 5.06
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥६॥
Gīta Bhāshya 5.06
इतश्च संन्यासाद् योगो वरः इत्याह - संन्यासस्तु इति।
योगाभावे मोक्षादिफलं न भवति। अतः कामजयादि दुःखमेव तस्य। मोक्षाद्येव हि फलं।अन्यत् फलम् अल्पत्वात् अफलमेव इति आशयः। तच्चोक्तं-
"विना मोक्षफलं यत्तु न तत्फलमुदीर्यते।"
इति पाद्मे।
यत्तु महत्फलयोग्यं तस्य फलं फलमेव न भवति। यथा पद्मरागस्य तण्डुलमुष्टिः। महाफलश्च योगयुक्तश्चेत् संन्यास इत्याह - योगयुक्त इति। मुनिः संन्यासी। तथाचोक्तम्-
"स हि लोके मुनिर्नाम यः कामक्रोधवर्जितः।"
इति ॥६॥
Gīta Tātparya 5.06
"मोक्षोपायो योग इति तद्रूपो न्यास एव तु। विष्ण्वर्पिततया भद्रो नाऽन्यो न्यासः कथञ्चन॥"
इति आग्नेये।
विष्ण्वर्पितत्वादियोगरूपत्वं विना केवलकर्मत्यागो नरकफल एव।
"यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव" (गीत ६.२)
इति वक्ष्यमाणत्वात्। योगविशेषत्वात् न्यासस्य पृथगुक्तिः ॥६॥