B.G 5.04 and 05
साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यग् उभयोर्विन्दते फलम् ॥४॥
यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५॥
Gīta Bhāshya 5.04 and 05
संन्यासो हि ज्ञानान्तरङ्गत्वेन उक्तः -
"न तस्य तत्त्वग्रहणाय साक्षात्" (भागवत ५.११.३)
इत्यादौ। अतः कथं सः अवमः इत्यत आह - साङ्ख्ययोगौ इति। उभयोरपि अन्तरङ्गत्वेन अविरोधः।
"अग्निमुग्धो ह वै धूमतान्तः स्वं लोकं न प्रतिजानाति"
"मा वः पदव्यः पितरस्मदाश्रिता या यज्ञशालासनधूमवर्त्मनाम्"
इत्यादि काम्यकर्मविषयम् इति भावः। ये तु अन्यथा वदन्ति ते बालाः ॥४॥
एकमपि इत्यस्य अभिप्रायमाह - यत् साङ्ख्यैः इति। योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यते इत्यर्थः ॥५॥
Gīta Tātparya 5.04 and 05
बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्यशब्दोदितज्ञानाधिकारः, गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते। तन्न पण्डिता मन्यन्ते। कुतः? यस्मात् ज्ञानमार्गं कर्म मार्गं च सम्यक् आस्थितः उभयोरपि फलं प्राप्नोति ॥४॥
तस्माज्ज्ञानिनां कर्माऽपि अनुष्ठेयम्। कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान्। न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति।
"निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते। निवृत्तं सेवामानस्तु ब्रह्माभ्येति सनातनम्। बुद्ध्याऽविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत्। वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः॥
मुक्तिरस्तीति नियमो ब्रह्मदृग् यस्य विद्यते। तस्याप्यानन्दवृद्धिः स्यात् वैष्णवं कर्म कुर्वतः॥
कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम्। तस्मात् कर्मेति तत्प्राहुः यत्कृतं ब्रह्मदर्शिना॥
एतस्मात् न्यासिनां लोकं संयान्ति गृहिणोऽपि हि। ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि। तस्मादाश्रमभेदोऽयं कर्मसङ्कोचसम्भवः॥"
इति व्यासस्मृतेः ॥५॥