B.G 4.05 and 06
श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥६॥
Gīta Bhāshya 4.05 and 06
न तर्हि अनादिः भवान् इत्यत आह - अजोऽपीति॥
अव्ययः आत्मा देहोऽपि इति अव्ययात्मा।
"अनन्तं विश्वतोमुखम्"
इति हि रूपविशेषणम् उत्तरत्र।
"एतन्नानावताराणां निधानं बीजमव्ययम्"
इति च।
'जगृहे' इति तु व्यक्तिः। युक्तयस्तु उक्ताः। आत्मानादित्वं तु सर्वसमम्। कथम् अनादिनित्यस्य जनिः? प्रकृतिं स्वाम् अधिष्ठाय। प्रकृत्या जातेषु वसुदेवादिषु। तयैव तेषां जात इव प्रतीयते इत्यर्थः। न तु स्वतन्त्राम् अधिष्ठाय इत्याह - स्वाम् इति॥
"द्रव्यं कर्म च"
इति ह्युक्तम्।
सा हि तत्रोक्ता। ततः सर्वसृष्टेः।
आत्ममायया आत्मज्ञानेन। प्रकृतेः पृथगभिधानात्।
"केतुः केतश्चितिश्चित्तं मतिः क्रतुर्मनीषा माया॥"
इत्यभिधानम्।
सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकया अजात एव जात इव प्रतीयते वा। उक्तं च–
"महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता। विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोऽपि हि। जातवत्प्रथते ह्यात्मचिद्बलान्मूढचेतसाम्॥"
इति।
ईश्वरः ईशेभ्योऽपि वरः तच्चोक्तम्-
"ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान्। वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित्॥"
इति ब्रह्मवैवर्ते।
"समर्थ ईश इत्युक्तः तद्वरत्वात्त्वमीश्वरः।"
इति च ॥६,७॥
Gīta Tātparya 4.06
आत्ममायया आत्मेच्छया। प्रकृतिं स्वामधिष्ठाय स्वभावम्।
"देवस्यैष स्वभावोऽयम्"
इत्यादिश्रुतेश्च। अत एव स्वशब्देन विशेषणं
"प्रकृतिं स्वामवष्टभ्य"
इत्यादिषु।
"मयाध्यक्षेण प्रकृतिः"
इत्यादिषु तु न स्वशब्दः।
"प्रकृतिं विद्धि मे पराम्"
इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या।
अत्र तु स्वशब्दः स्वरूपवाची। स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः। भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये। स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति।
"स्रष्टृत्वादिस्वभावत्वात् स्वेच्छया विष्णुरव्ययः। सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत्॥"
इति नारायणश्रुतिः ॥६,७॥