Bhagavad Gīta Bhāshya and Tātparya
B.G 3.31 and 32
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३१॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥३२॥
Gīta Bhāshya 3.31 and 32
फलमाह - ये मे इति॥
ये त्वेवं निवृत्तकर्मिणः तेऽपि मुच्यन्ते ज्ञानद्वारा। किमु अपरोक्ष ज्ञानिनः । न तु साधनान्तरम् उच्यते-
"निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये। अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्नमार्गते॥ सर्वं तदन्तराधाय मुक्तये साधनं भवेत्। न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक्॥"
इति नारायणाष्टाक्षरकल्पे।
अत एव समुच्चय नियमोऽपि निराकृतः ॥३१, ३२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.