Bhagavad Gīta Bhāshya and Tātparya
B.G 3.03
श्रीभगवानुवाच-
लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां ॥३॥
Gīta Bhāshya 3.03
ज्यायस्त्वेपि बुद्धेः अधिकारिकत्वात् त्वं कर्मण्यपि अधिकृतः इति तत्र नियोक्ष्यामि इत्याशयवान् भगवानाह - लोके इति।
द्विविधाः अपि जनाः सन्ति। गृहस्थादि कर्मत्यागेन ज्ञान निष्ठाः सनकादिवत्, तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत्। मद्धर्मस्थाः एव इत्यर्थः।
साङ्ख्यानां ज्ञानिनां सनकादीनाम्। योगिनाम् उपायिनां जनकादीनाम्। ज्ञाननिष्ठा अपि अधिकारिकत्वात् ईश्वरेच्छया लोकसङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेपि योगिनः। निष्ठा स्थितिः।
त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः। न तु सनकादिवत् तत्त्यागेन इत्यर्थः।
सन्ति हि ईश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोपि ज्ञानिन एव। तथाह्युक्तम् - "ईश्वरेच्छया विनिवेशितकर्माधिकारः" इति ॥३॥
Gīta Tātparya 3.03
ज्ञानप्रचुरो योगः ज्ञानयोगः। कर्मप्रचुरः अन्यः।
"साङ्ख्या ज्ञानप्रधानत्वात् देवाश्च यतयस्तथा। मुख्यसाङ्ख्याः तत्र देवाः ज्ञानमेषां महद्यतः॥ बहुकर्मकृतोप्येते ततोपि बहुवेदनात्। मुख्यसाङ्ख्या इति ज्ञेयाः तदन्ये कर्मयोगिनः॥ ज्ञानिनोप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः। नोभयं तद्विना कश्चित् पुमान् हि पुरुषार्थभाक्॥ न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्। न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत्॥"
इति ब्रह्मवैवर्ते।
निष्ठा पर्यवसितिः मुक्तिः।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.