Bhagavad Gīta Bhāshya and Tātparya
B.G 3.01 and 02
अर्जुन उवाच-
ज्यायसी चेत् कर्मणस्ते मता बुदि्धर्जनार्दन। तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥१॥
व्यामिश्रेणैव वाक्येन बुदि्धं मोहयसीव मे। तदेकं वद निश्चित्य येन श्रेयोहमाप्नुयाम् ॥२॥
Gīta Bhāshya 3.01 and 02
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र। ज्ञानसाधनत्वेन अकर्म विनिन्द्य कर्म विधीयते उत्तराध्याये।
कर्मणः ज्ञानम् अत्युत्तमम् इत्यभिहितं भगवता "दूरेण ह्यवरम् कर्म" इत्यादौ। एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विहाय इत्याह- ज्यायसीति।
कर्मणः सकाशात् बुद्धिः ज्यायसी चेत् ते तव मता तत्तर्हि ॥१, २॥
Gīta Tātparya 3.01 and 02
ज्ञानं योगश्च उक्तौ तत्र। कर्मयोगं विशेषतः प्रपञ्चयति अनेन अध्यायेन। "दूरेण हि अवरं कर्म" इति प्रश्नबीजम् ॥१, २॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.