Bhagavad Gīta Bhāshya and Tātparya
B.G 3.04
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोश्नुते। न च संन्यसनादेव सिद्धिं समधिगच्छति ॥४॥
Gīta Bhāshya 3.04
इतश्च नियोक्ष्यामि इत्याह - न कर्मणाम् इति।
न कर्मणां युद्धादीनाम् अनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यते इति मोक्षं नाश्नुते। ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः। कुतः? पुरुषत्वात्। सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः। यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणां च।
न च अकरणे कर्माभावात् मुक्तिः भवति। प्रतिजन्मकृतानाम् अनन्तकर्मणां भावात्। न च सर्वाणि कर्माणि भुक्तानि। एकस्मिन् शरीरे बहूनि हि कर्माणि करोति। तानि च एकैकानि बहुजन्मफलानि कानिचित्। तत्र च एकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम्। ततश्च बहुशरीरफलानि कर्माणि इति असमाप्तिः। तच्चोक्तम्-
"जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु। स्त्री वाप्यनूनदशकं देहं मानुषमार्जते॥ चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः। अतोवित्त्वा परं देवं मोक्षाशा का महामुने॥"
इति ब्राह्मे।
यदि सादिः स्यात् संसारः पूर्वकर्माभावात् अतत्प्राप्तिः। अबन्धकत्वं तु अकामेनैव भवति। तच्च वक्ष्यते - 'अनिष्टमिष्टम्' इति।
ननु निष्कामकर्मणः फलभावात् मोक्षः स्मृतः-
"निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते। निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥"
इति मानवे।
अतः तत्साम्यात् अकरणेपि भवति इत्यत आह- न च इति। संन्यासः काम्यकर्मपरित्यागः। "काम्यानां कर्मणां" इति वक्ष्यमाणत्वात्। अकामकर्मणाम् अन्तःकरणशुद्ध्या ज्ञानात् मोक्षो भवति। तच्चोक्तम्-
"कर्मभिः शुद्धसत्त्वस्य वैराग्यं जायते हृदि॥"
इति भागवते।
विरक्तानामेव च ज्ञानमुक्तम्-
"न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्॥"
इति । (भागवते ५.११.३)
न तु फलाभावात्। कर्माभावात्। अतो न कर्मत्याग एव मोक्षसाधनम्।
यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च। अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम्। इतरकर्मोद्योगात्। अप्रयतानां च न ज्ञानम्। तथाहि श्रुतिः "नाशान्तो नासमाहितः" इति। महांश्च यत्याश्रमे तोषो भगवतः। तथाह्याह-
"यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषणीम्।"
इति नारायणाष्टाक्षरकल्पे।
आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः। स एव च महान् भगवतः तोषः। तच्चोक्तम्-
"देवादीनामादिराज्ञां महोद्योगेपि नो मनः। विष्णोश्चलति तद्भोगोप्यतीव हरितोषणम्॥"
इति पाद्मे ॥४॥
Gīta Tātparya 3.04
"ज्ञानिनो मोक्षनियमः तथापि शुभकर्मणा। आनन्दवृद्धिरन्येन ह्रासो ज्ञानं तु कर्मणा॥"
इति परमश्रुतेः।
"न कर्मणा न प्रजया धनेन" इत्यादिविरोधो न। अन्यथा "न कर्मणामनारम्भात्" इत्याद्युभय समवाक्यशेषविरोधश्च। समत्वं च "न हि कश्चित्" इत्यादेः। "नान्यः पन्थाः" इत्यपि ज्ञानमृते न मोक्ष इत्येवाह ॥३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.