Bhagavad Gīta Bhāshya and Tātparya
B.G 2.72
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वास्यामन्तकालेपि ब्रह्म निर्वाणमृच्छति ॥७२॥
Gīta Bhāshya 2.72
उपसंहरति - एषेति।
ब्राह्मी स्थितिः ब्रह्मविषया स्थितिः लक्षणम्। अन्तकालेपि अस्यां स्थित्वैव ब्रह्म गच्छति। अन्यथा जन्मान्तरं प्राप्नोति। "यं यं वापि" इति वक्ष्यमाणत्वात्। ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम्।
"भोगेन तु इतरे"
इति ह्युक्तम्। सन्ति हि बहुशरीरफलानि कर्माणि।
"सप्तजन्मनि विप्रः स्यात्"
इत्यादेः। दृष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः। तथाहि उक्तम्-
"स्थितप्रज्ञोपि यस्तूर्ध्वः प्राप्य रुद्रां पदं ततः। साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादतः॥"
इति गारुडे।
"महादेव परे जन्मंस्तव मुक्तिर्निरूप्यते।"
इति नारदीये।
निश्चितफलं च ज्ञानम्।
"तस्य तावदेव चिरम्", "यदु च नार्चिषमेवाभिसम्भवति"
इत्यादिश्रुतिभ्यः॥
न च कायव्यूहापेक्षा।
"तद्यथैषीकातूलम्", "तद्यथा पुष्करपलाशे", "ज्ञानाग्निः सर्वकर्माणि"
इत्यादिवचनेभ्यः। प्रारब्धे तु अविरोधः। प्रमाणाभावाच्च। न च तच्छास्त्रं प्रमाणम्-
"अक्षपादकणादानां साङ्ख्ययोगजटाभृताम्। मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसः॥"
इति निन्दनात्। यत्र तु स्तुतिः तत्र शिवभक्तानां स्तुतिपरत्वमेव। न तत्सत्यत्वम्। न हि तेषामपि इतरग्रन्थ विरुद्धार्थे प्रामाण्यम्। तथा हि उक्तम्-
"एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति। त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय। अतथ्यानि वितथ्यानि दर्शयस्व महाभुज। प्रकाशं कुरु चात्मानम् अप्रकाशं च मां कुरु॥"
इति वाराहे।
"कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः। चकार शास्त्राणि विभुः ऋषयस्तत्प्रचोदिताः। दधीच्याद्याः पुराणानि तच्छास्त्रसमयेन तु। चक्रुर्वेदैश्च ब्राह्माणि वैष्णवान् विष्णुवेदतः। पञ्चरात्रं भारतं च मूलरामायणं तथा। तथा पुराणं भागवतं विष्णुवेद इतीरितः। अतः शैवपुराणानि योग्यान्यन्याविरोधतः॥"
इति च नारदीये।
अतो ज्ञानिनां भवत्येव मुक्तिः। भीष्मादीनां तत् क्षणे युक्त्यभावः। 'स्मरन् तस्त्यजति' इति वर्तमानापदेशो हि कृतः।तच्चोक्तम्-
"ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा। विष्णुमाया तदा तेषां मनो बाह्यं करोति हि॥"
इति गारुडे।
न च अन्येषां तदा स्मृतिः भवति?
"बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम्। भजन्ति तत्स्मृतिं त्वन्ते देवो याति न चान्यथा॥"
इत्युक्तेः ब्रह्मवैवर्ते।
निर्वाणं अशरीरम्।
"कायो वाणं शरीरं च"
इत्यभिधानात्।
"एतद्बाणमवष्टभ्य"
इति प्रयोगाच्च। निर्वाणशब्दप्रतिपादनम् "अनिंद्रियाः" इत्यादिवत्। कथं अन्यथा सर्वपुराणादिप्रसिद्धाकृतिः भगवतः उपपद्यते। न च अन्यत् भगवतः उत्तमं ब्रह्म -
"ब्रह्मेति परमात्मेति भगवानिति शब्द्यते॥"
इति भागवते।
"भगवन्तं परं ब्रह्म", "परं ब्रह्म जनार्दनः", "परमं यो महद् ब्रह्म", "यस्मात् क्षरमतीतोहम् अक्षरादपि चोत्तमः", "योSसावतींद्रियग्राह्यः", "नास्ति नारायणसमं न भूतं न भविष्यति", "न त्वत्समोस्त्यभ्यधिकः कुतोSन्यः"
इत्यादिभ्यः।
न च तस्य ब्रह्मणः अशरीरत्वात् एतत् कल्प्यम्। तस्यापि शरीरश्रवणात्-
"आनन्दरूपम्", "सुवर्णज्योतीः", "दहरोस्मिन् अन्तर आकाशः"
इत्यादिषु।
यदि रूपं न स्यात् आनन्दम् इत्येव स्यात्। न तु आनन्दरूपम् इति। कथं च सुवर्णरूपत्वं स्यात् अरूपस्य?कथं च दहरत्वम्? दहरस्थश्च -
"केचित् स्वदेहे" ("केचित् स्वदेहे हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्। चतुर्भुजं कंजरथांगशंखगदाधरं धारणया स्मरन्ति॥")
इत्यादौ रूपवान् उच्यते।
"सहस्रशीर्षा पुरुषः", "रुग्मवर्णं कर्तारम्", "आदित्यवर्णं तमसः परस्तात्", "सर्वतः पाणिपादं तत्", "विश्वतश्चक्षुः"
इत्यादिवचनात्, विश्वरूपाध्यायादेश्च रूपवान् अवसीयते।
अतिपरिपूर्णतम ज्ञान ऐश्वर्य वीर्य आनन्द श्री शक्त्यादिमांश्च भगवान्।
"परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च।", "यः सर्वज्ञः", "आनन्दं ब्रह्मणः", "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति।", "अनादिमध्यान्तमनन्तवीर्यम्", "सहस्रलक्षा- मितकान्तिकान्तम्", "मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे", "विज्ञानशक्तिरहमासमनन्तशक्तेः", "तुर्यं तत् सर्वदृक् सदा", "आत्मानमन्यं च स वेद विद्वान्", "अन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः", "ऐश्वर्यस्य समग्रस्य।"
"अतीव परिपूर्णं ते सुखं ज्ञानं च सौभगम्। यच्चात्ययुक्तं स्मर्तुं वा शक्तः कर्तुमतः परः॥"
इत्यादिभ्यः।
तानि सर्वाणि अन्योन्यरूपाणि-
"विज्ञानमानन्दं ब्रह्म", "आनन्दो ब्रह्मेति व्यजानात्", "सत्यं ज्ञानम् अनन्तं ब्रह्म", "यस्य ज्ञानमयं तपः", "स मा भग प्रविश स्वाहा"
"न यस्य प्राकृता मूर्तिः मांसमेदोस्थिसम्भवा। न योगित्वात् इश्वरत्वात् सत्यरूपाच्युतो विभुः॥"
"सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः। ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः॥"
इति पैङ्गिखिलेषु।
"देहोयं मे सदानन्दो नायं प्रकृतिनिर्मितः। परिपूर्णश्च सर्वत्र तेन नारायणोस्म्यहम्॥"
इत्यादि ब्रह्मवैवर्ते।
तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया-
"न च गर्भेवसद्देव्या न चापि वसुदेवतः। न चापि राघवाज्जातो न चापि जमदग्नितः। नित्यानन्दोव्ययोप्येवं क्रीडते अमोघदर्शनः॥"
इति पाद्मे।
"न वै स आत्मात्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः।"
"सर्गादेरीशिताजः परमसुखनिधिर्बोधरूपोप्यबोधं लोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम।"
"स ब्रह्मवन्द्यचरणो नरवत् प्रलापी स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार।"
"पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम्। रुद्रवाक्यमृतं कर्तुमजितो जितवत् स्थितः। योजितो विजितो भक्त्या गाङ्गेयं न जघान ह। न चाम्बा ग्राहयामास करुणः कोपरस्ततः॥"
इत्यादिभ्यश्च स्कान्दे।
न तत्र संसारधर्मा निरूप्याः।
यत्र परावरभेदः अवगम्यते तत्र अज्ञबुदि्धम् अपेक्ष्य अवरत्वम्। विश्वरूपम् अपेक्ष्य अन्यत्र। तच्चोक्तम्-
"परिपूर्णानि रूपाणि समान्यखिलरूपतः। तथाप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोपि हि। परावरं वदन्त्येव ह्यभक्तानां विमोहने॥"
इति गारुडे।
न च अत्र किञ्चिदुपचारात् इति वाच्यम्। अचिन्त्यशक्तेः पदार्थवैचित्र्याच्चेत्युक्तम्।
"कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा। न चाणुमात्रं भिन्नानि तथाप्यस्मान् विमोहसि॥"
इत्यादेश्च नारदीये।
तस्मात् सर्वदा सर्वरूपेषु अपरिगणितानन्तगुणगणं नित्यनिरस्ताशेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञानी ऋच्छतीति सिद्धम् ॥७२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये द्वितीयोध्यायः ॥
Gīta Tātparya 2.72
ब्राह्मी ब्रह्मविषया। ज्ञानिनामप्यन्तकाले अन्यमनसां प्रारब्धकर्मभावात् जन्मान्तरम्। प्रारब्ध कर्मनाशकाले नियमेन भगवत्स्मृऽतिर्भवति। ततो मोक्षश्च।
"यं यं वापि स्मरन् भावम्"
इति हि वक्ष्यति।
बाणं शरीरम्।
"अभावात् जडदेहस्य विष्णुर्निर्वाण उच्यते। भिन्नदेहाभावतो वा स सहस्रशिरा अपि॥"
इति च ॥७२॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये द्वितीयोध्यायः॥
॥ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोध्यायः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.