Bhagavad Gīta Bhāshya and Tātparya
B.G 2.71
विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः। निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥७१॥
Gīta Bhāshya 2.71
एतदेव प्रपञ्चयति - विहायेति।
कामान् विषयान्, निस्पृहतया विहाय यः चरति भक्षयति, भक्षयामीति अहङ्कारममकारवर्जितश्च स हि पुमान्। स एव च मुक्तिम् अधिगच्छतीत्यर्थः ॥७१॥
Gīta Tātparya 2.71
निषिद्धस्पृहाभावमात्रेण सर्वविषयान् विहाय।
"अस्वरूपे स्वरूपत्वमतिरेव ह्यहङ्कृतिः। त्याज्या सर्वत्र ममता ज्ञात्वा सर्वं हरेर्वशे॥"
इति च ॥७१॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.