Bhagavad Gīta Bhāshya and Tātparya
B.G 2.53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२-५३॥
Gīta Bhāshya 2.53
तदेव स्पष्टयति - श्रुतिविप्रतिपन्नेति।
पूर्वं श्रुतिभिः वेदैः विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति, ततश्च समाधौ अचला, ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात्, तदा योगं अवाप्स्यसि उपायसिद्धो भवसीत्यर्थः ॥५३॥
Gīta Tātparya 2.53
"बुदि्धमोहो यदा न स्यात् अन्यथाज्ञानलक्षणः। श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः॥ श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला। समाधानेन तु पुनरापरोक्ष्याच्च निश्चला। विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्नुते॥"
इति पैङ्गिश्रुतौ।
श्रुतौ विशेषेण प्रतिपन्ना ॥५२,५३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.