B.G 2.52
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२-५२॥
Gīta Bhāshya 2.52
कियत्पर्यन्तम् अवश्यं कर्तव्यानि मुमुक्षुणां एवं कर्माणि इति आह- 'यदेति'॥
'निर्वेदं' - नितरां लाभम्। प्रयोगात्-
"तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत"
-इत्यादि। न हि तत्र वैराग्यम् उपपद्यते। तथा सति 'पाण्डित्यात्' इति स्यात्।
न च ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति।
"आत्मारामा हि मुनयः निर्ग्राह्या अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिम् इत्थम्भूतगुणो हरिः॥"
इति वचनात्। अनुष्ठानाच्च शुकादीनाम्। नच तेषां फलं सुखं नास्ति। तस्यैव महत्सुखत्वात् तेषाम्-
"या निर्वृतिस्तनुभृतां तव पादपद्म। ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात्। सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिलुलितात् पततां विमानात्॥"
इत्यादि वचनात्।
तेषामपि उपासनादिफलस्य साधितत्वात्। तारतम्याधिगतेश्च। तथाहि यदि तारतम्यं न स्यात्-
"नात्यन्तिकं विगणयन्त्यपि ते प्रसादम्॥"
"नैकात्मतां मे स्पृहयन्ति केचित्॥"
"एकत्वमप्युत दीयमानं न गृह्णन्ति॥"
इति मुक्तिमपि अनिच्छताम् मोक्ष एव फलं। तदिच्छतामपि स भवति सुप्रतीकादीनाम् इति कथम् अनिच्छतां स्तुतिरुपपन्ना स्यात्॥ वचनाच्च-
"यथा भक्तिविशेषोत्र दृश्यते पुरुषोत्तमे। तथा मुक्तिविशेषोपि ज्ञानिनां लिङ्गभेदने॥ योगिनां भिन्नलिङ्गानाम् आविर्भूतस्वरूपिणाम्। प्राप्तानां परमानन्दं तारतम्यं सदैव हि॥"
इति।
"न त्वाम् अतिशयिष्यन्ति मुक्तावपि कथञ्चन। मद्भक्तियोगात् ज्ञानाच्च सर्वानतिशयिष्यसि॥"
इति च।
साम्यवचनं तु प्राचुर्यविषयं दुःखाभावविषयं च। तथा चोक्तम्-
"दुःखाभावः परानन्दो लिङ्गभेदः समा मताः। तथापि परमानन्दो ज्ञानभेदात्तु भिद्यते॥"
इति नारायणाष्टाक्षरकल्पे।
अतो न वैराग्यं श्रुतादौ अत्र विवक्षितम्। न च सङ्कोचे मानं किञ्चिद् विद्यमाने इतरत्र प्रयोगे। महद्भिः श्रवणीयस्य श्रुतस्य च वेदादेः फलं प्राप्स्यसि इत्यर्थः ॥५२॥
Gīta Tātparya 2.52
निर्वेदं नितरां लाभम्।