Bhagavad Gīta Bhāshya and Tātparya
B.G 17.05 and 06
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥५॥
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तः शरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥६॥
Gīta Bhāshya 17.05 and 06
भगवत्कर्शनं नाम अल्पत्वदृष्टिरेव।
"यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोऽतिपापी।"
इति अनभिम्लान श्रुतिः।
आसुरो निश्चयो येषां त आसुरनिश्चयाः।
"देवास्तु सात्त्विकाः प्रोक्ताः दैत्या राजसतामसाः।"
इति अग्निवेश्यश्रुतिः ॥६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.