Bhagavad Gīta Bhāshya and Tātparya
B.G 11.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥१२॥
Gīta Bhāshya 11.12
सहस्रशब्दोऽनन्तवाची। तदपि "पाकशासनविक्रमः" इति वत् प्रत्यायनार्थमेव। तथाहि ऋग्वेदखिलेषु-
"अनन्तशक्तिः परमोऽनन्तवीर्यः सोऽनन्ततेजाश्च ततस्ततोऽपि॥"
इति।
महातात्पर्याच्च बाहुल्यम्। न च परिमाणोक्त्या किञ्चित् प्रयोजनम् ॥१२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.