Bhagavad Gīta Bhāshya
B.G 2.62 and 63
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते॥६२॥
क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥६३॥
Gīta Bhāshya 2.62 and 63
रागादिदोषकारणमाह परिहाराय श्लोकद्वयेन। सम्मोहः अकार्येच्छा। तथाहि मोहशब्दार्थ उक्तः उपगीतासु-
"मोहसंज्ञितं। अधर्मलक्षणं चैव नियतं पापकर्मसु।"
इति।
तथा चान्यत्र-
"सम्मोहोSधर्मकामिता"
इति।
स्मृति विभ्रमः प्रतिषेधादिबुद्धिनाशः। बुद्धिनाशः सर्वात्मना दोषबुद्धिनाशः। विनश्यति नरकाद्यनर्थं प्राप्नोति। तथाह्युक्तम्-
"अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा। दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते॥"
इति ॥ ६२, ६३ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.