Bhagavad Gīta Bhāshya
B.G 2.64 and 65
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति ॥६५॥
Gīta Bhāshya 2.64 and 65
इंद्रियजयफलम् आह उत्तराभ्यां श्लोकाभ्याम्। विषयान् अनुभवन्नपि। विधेय आत्मा मनः अस्य सः जितात्मेत्यर्थः। प्रसादं मनःप्रसादम् ॥ ६४ ॥
कथं प्रसादमात्रेण सर्वदुःखहानिः। प्रसन्नचेतसो हि बुदि्धः पर्यवतिष्ठति ब्रह्मापरोक्ष्येण सम्यक् स्थितिं करोति। प्रसादो नाम स्वतोपि प्रायः विषयागतिः ॥६५॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.