Bhagavad Gīta Bhāshya and Tātparya
B.G 18.66
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६६॥
Gīta Bhāshya 18.66
धर्मत्यागः फलत्यागः। कथमन्यथा युद्धविधिः।
"यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते"
इति चोक्तम्॥
Gīta Tātparya 18.66
अन्यसर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनम्। "मामेकं शरणं व्रज" इत्यपि "मन्मना" इत्याद्युक्तनिगमनात्मना तद्व्याख्यानम्।
"सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा। सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम्॥ अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः। रक्षतीत्येव विश्वासः तदीयोऽहमिति स्मृतिः॥ शरणागतिरेषा स्यात् विष्णौ मोक्षफलप्रदा।"
इति महाविष्णुपुराणे।
अनादिजन्मकृतसर्वपापेभ्यः। अत्र प्राप्त्यभावात्। धर्मपरित्यागे पापपरित्यागस्य कैमुत्येनैव सिद्धत्वात्॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.