B.G 18.40 and 41
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥४०॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१॥
Gīta Tātparya 18.40 and 41
सत्त्वं जीवजातम्। मुक्तानां गुणातीतत्वात् "पृथिव्यां दिवि देवेषु वा" इति विशेषः।
"यथेष्टं सञ्चरन्तोऽपि मुक्ता भूम्यादिगा न तु। ग्रामस्था अपि न ग्राम्या वैलक्षण्याद्धि सज्जनाः। नराधमाः तामसेषु सात्त्विकाः तत्र राजसाः। दैत्यभृत्या महादैत्या मुख्यतामसतामसाः॥ राजसास्तु नराः तत्र विप्रा राजससात्त्विकाः।
तत्रस्थशुद्धसत्त्वास्तु परहंसाः प्रकीर्तिताः। हंसो बहूदः कुटजो वनस्थो नैष्ठिको गृही॥ क्रमाद् रजोधिकाः बाह्यं कर्मैषामधिकं यतः। धर्माः परमहंसानां ब्राह्मा एव शमादिकाः। kramād rajodhikāḥ bāhyaṃ karmaiṣāmadhikaṃ yataḥ। dharmāḥ paramahaṃsānāṃ brāhmā eva śamādikāḥ।
देवादेः कर्मबाहुल्यं न लिङ्गं रजसः क्वचित्॥ न हि विष्णोः चलेत् तेषां मनः कर्मकृतावपि। अन्येषां चलचित्तत्वात् प्रायः स्यात् कर्म राजसम्॥ यदि तत् स्मारकं विष्णोः विद्यात् सात्त्विकमेव तु॥
धर्मार्थहिंसनाग्निश्च विशेषो ब्रह्मचारिणः। पैतृकं चापि यतितो दारास्तु गृहिणस्ततः॥ असङ्गो ग्राम्यसन्त्यागः पश्वहिंसा गृहस्थतः। वनस्थस्य विशेषोऽयं सर्वेषामितरत् समम्॥"
इति च।
"सात्त्विकाः स्वल्परजसः क्षत्रियाः सत्त्वराजसाः। वैश्याः शूद्रा अतिस्वल्पसत्त्वाधिक्येन तामसाः॥
ये तु भागवता वर्णास्तेषां भेदोऽयमीरितः। सत्त्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदा॥
त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः। अन्याधिक्यं न मन्यन्ते श्रीशाद् राजसराजसाः। अज्ञा विष्णौ द्वेषहीनाः सर्वे राजसतामसाः।
पितृगन्धर्वपूर्वाश्च मुनयो देवता इति॥ सात्त्विकाः त्रिविधास्तत्र श्रेष्ठा एवोत्तरोत्तराः। देवा इन्द्रो विरिञ्चाद्या इति त्रेधैव देवताः। क्रमोत्तराः शिवो वाणी ब्रह्मा चैवोत्तरोत्तराः॥
सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वः चतुर्मुखः। यस्माद्विमुक्तिः स्यान्मुक्तावेवं सुखक्रमः॥"
इति च।
विष्णौ किञ्चित् अप्रीतियुक्ताः तामसमध्ये सात्त्विका नराधमा इत्यर्थः। राजसानां मध्ये सात्त्विका एव भागवतविप्रादयः।
राजसस्थसात्त्विकेष्वेव शुद्धसात्त्विकाः किञ्चिद्रजोयुक्तसात्त्विकाः समरजोयुक्तसात्त्विकाः सत्त्वात् किञ्चिदूनतमोयुक्तसात्त्विका इति वर्णभेदः।
सत्त्वप्रधानत्वात् एतानारभ्य उत्तरोत्तरं सर्वेपि मोक्षयोग्याः।
"सत्त्वात् सञ्जायते ज्ञानम्" इत्यादेः।
"सत्त्वाधिको मोक्षयोग्यो योग्योऽन्धतमसस्तथा। तम उत्तरो रजोभूयान् समो वा सृतिपात्रकः॥"
इति च॥