B.G 18.18
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥१८॥
Gīta Bhāshya 18.18
एवं तर्हि न पुरुषं अपेक्ष्य विधिः। अकर्तृत्वात् इत्यत आह - ज्ञानं इति॥
त्रिविधा कर्मचोदना। एतत् त्रिविध मपेक्ष्य कर्मविधिः इति त्रिविधा उच्यते। कारणानि सङ्क्षिप्याह - करणं इति॥
कर्म सङ्ग्रहः कर्मकारणसङ्ग्रहः। अधिष्ठानादि करणे एव अन्तर्भूतः। तथाहि ऋग्वेदखिलेषु -
"ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः। करणं चैव कर्ता च कर्मकारणसङ्ग्रहः॥"
इति।
अकर्तृत्वेपि विधिद्वार ईश्वरप्रसादात् इच्छोत्पत्त्या उक्त कारणैः कर्मद्वारा पुरुषार्थो भवतीति। ईश्वराधीनत्वेपि विधिद्वारा नियतः तेनैव। यदि च इच्छादिः जायते तर्हि कारितमेव ईश्वरेण। फलं च नियतम्। वस्तुतो अकर्तृत्वेपि अभिमानिकं कर्तृत्वं तस्यैव। स्वातन्त्र्यं च जडमपेक्ष्येव इति न प्रवृत्तिविधि वैयर्थ्यम्। सर्वं चैतत् अनुभवोक्तप्रमाणसिद्धं इति न पृथक् प्रमाणमुच्यते ॥१८॥
Gīta Tātparya 18.18
"सम्प्रेरयितुरीशस्य कर्मस्वखिलचेतनान्। ज्ञातृज्ञेयज्ञानरूपा प्रेरणा सा स एव यत्॥
स्वरूपेणैव नित्या सा विशेषात्मतया भवेत्। विशेषोऽपि स्वरूपेण नित्यश्च स्याद् विशेषतः॥
स्वनिर्वाहकता यस्मात् नानवस्था विशिष्टवत्। विशेष्यस्य विशिष्टस्याप्यभेदेप्यविवादिनि॥
विशेषोऽस्त्येव नात्रास्ति हि अनवस्था कदाचन। ज्ञातुरन्योऽहमिति भेदस्तस्मात् तयोः कुतः। पश्यामीति विशेषोऽयमिदानीं मे समुत्थितः॥
इत्याद्यनुभवाद् भेदो न विशेष्यविशिष्टयोः। विशेषणं तु द्विविधं विशेषाख्यं तथेतरत्। विशेषमणयेद् येन प्रोक्तं तेन विशेषणम्। विशेषोऽपि विशेषस्य स्वस्यैव गमको भवेत्॥"
इत्यादि तत्त्वविवेके।
सङ्ग्रहः पञ्चकारणानां सङ्क्षेपः। अधिष्ठानस्य करणे अन्तर्भावात्। दैवशब्दोदितेश्वरस्यैव मुख्यकर्तृत्वात् स्वतन्त्रकर्त्रोः कर्तृशब्देनैव उक्तेः त्रैविध्यम्। कर्म चेष्टा ॥१८॥