B.G 18.17
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥१७॥
Gīta Bhāshya 18.17
तज्ज्ञानं स्तौति - यस्य इति।
यस्तु ईषत् बद्ध्यते स ईषदहङ्कारी च ॥१७॥
Gīta Tātparya 18.17
"स्वातन्त्र्यमीश्वरे वेत्ति नैवात्मनि कदाचन। ईश्वराधीनमेवात्मन् स्वातन्त्र्यं तु जडान् प्रति॥
तारतम्येन लक्ष्म्यादेः जीवान् प्रति च सर्वशः। यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः॥ हत्वापि स इमान् लोकान् न हन्ति न निबद्ध्यते। अज्ञः तदर्थं जातोपि वद्ध्यते दैत्यवद् ध्रुवम्॥
अपरोक्षदृङ्ग् न जातो यः तदर्थं मुक्तिगं सुखम्। ह्रसेत् तस्य परोक्षज्ञः किञ्चिद् दोषेण लिप्यते॥"
इति च।
अस्वातन्त्र्यत् हन्मीति भावोऽपि अस्य नास्तीति न हन्ति। अन्यस्य भावोऽस्तीति विशेषः। 'बुदि्धर्यस्य न लिप्यते' इति रागान्न हन्ति, किन्तु धर्मबुद्ध्या।
"स्वातन्त्र्यं मन्यमानस्य रागाद् धर्मं च कुर्वतः। तन्निमित्तस्तु दोषः स्यात् गुणश्च स्यात् सुकर्मजः॥"
इति च॥