Bhagavad Gīta Bhāshya and Tātparya
B.G 17.16
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपो मानसमुच्यते ॥१६॥
Gīta Bhāshya 17.12
सौम्यत्वं अक्रौर्यत्वम्।
"अक्रूरः सौम्य उच्यते"
इति ह्यभिधानम्।
मौनं मननशीलत्वम्।
"बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः॥"
इति हि श्रुतिः।
"एतेन हीदं सर्वं मतं यदनेन हीदं सर्वं मतं। तस्मान्मुनिः तस्मान्मुनिरित्याचक्षते।"
इति भाल्लवेयश्रुतिः।
कथं च अन्यथा मानसं तपः स्यात् ॥१६ ॥
Gīta Tātparya 17.16
मौनं मननम् ॥१६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.