B.G 17.04
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः। भूतान् प्रेतगणांश्चान्ये यजन्ते तामसा जनाः ॥४॥
Gīta Bhāshya 17.04
कः सात्त्विकश्रद्धः इत्यादि विभज्याह - यजन्त इत्यादिना ॥४॥
Gīta Tātparya 17.04
श्रद्धेत्यास्तिक्यनिष्ठोक्ता सा येषां दैवतोत्तमे। विष्णौ तद्भक्तबुद्ध्यैव रमाब्रह्मादिकेषु च॥
ते सात्त्विका इति ज्ञेयाः तैरिष्टं विष्णुरेव तु। श्रीश्च साध्यक्षविद्याख्या ब्रह्मेन्द्राद्याश्च देवताः॥
विबुधत्वात्तु मन्वाख्या भुञ्जते प्रीतिपूर्वकम्। व्यामिश्रयाजिनो ये तु विष्ण्वाधिक्ये ससंशयाः॥
स्वरूपमात्रे देवानां श्रद्धायुक्ताश्च सर्वदा। राजसास्ते तु विज्ञेयाः तैरिष्टं यक्षराक्षसाः॥
दीनत्वात् देवनामानो ब्रह्मेन्द्रादिसनामकाः। गृह्णन्ति ये हरिं तु अन्यदेवादिसममेव तु। नीचं ब्रह्माद्यनन्यं वा मन्यन्ते नेति चाखिलम्॥
तत्तत् श्रद्धायुतास्ते तु तामसाः परिकीर्तिताः। भूतप्रेतास्तु तैरिष्टं शिवस्कन्दादिनामकाः। साक्षात् शिवपरीवारा भुञ्जते हि अतितामसाः॥
मोक्षः साङ्कल्पिकः स्वर्गो भूतादित्वं फलं क्रमात्। त्यक्त्वापि शास्त्रविहितं मिथ्याज्ञानविवर्जिताः॥
भक्त्या विष्णुं यजन्तो ये निषिद्धाचरणोज्ज्ञिताः। तेपि यान्ति हरिं शास्त्रविधानस्थाः कुतः पुनः॥