Bhagavad Gīta Bhāshya and Tātparya
B.G 17.03
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥३॥
Gīta Bhāshya 17.03
सत्त्वानुरूपा चित्तानुरूपा।
यो यच्छ्रद्धः स एव सः सात्त्विकश्रद्धः सात्त्विकः इत्यादि ॥३॥
Gīta Tātparya 17.03
सत्त्वानुरूपा जीवानुरूपा। अतो ये सात्त्विकश्रद्धाः ते सात्त्विकाः इति ज्ञेयाः। अन्ये अन्ये इति। श्रद्धामयः श्रद्धास्वरूपः।
"मयं प्रधानमुद्दिष्टं स्वरूपं कार्यमेव च"
इति शब्दनिर्णये।
"श्रद्धास्वरूपं जीवस्य तस्मात् श्रद्धाविभेदतः। उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक्॥
स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम्। शिष्यते संसृतिस्थानां श्रद्धारूपं मनोऽपरम्॥
तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित्। सात्विकस्य तमोरूपा श्रद्धान्तःकरणात्मिका। सात्त्विकी तामसस्यापि भूयस्त्वात् तद्विविच्यते॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.