B.G 10.06
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६ ॥
Gīta Bhāshya 10.06
पूर्वे सप्तर्षयः- 'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः'' इति मोक्षधर्मोक्ताः ।
ते हि सर्वे(सर्व) पुराणेषूच्यन्ते । चत्वार प्रथमाः स्वायम्भुवाद्याः । तेषां हीमाः प्रजाः । नहि भविष्यतामिमाः प्रजा इति युक्तम् । विभागः प्राधान्यं च प्राथमिकत्वादेव भवति ।
तच्चोक्तं गौतमखिलेषु- 'स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम् । वेद यः स प्रजावान्'' इति ।
पूर्वेभ्यो ह्युत्तरा जायन्त इति च तेषां प्राधान्यम् । अजातेषु च ज्यैष्ठ्यम् । तापसस्य भगवदवतारत्वादनुक्तिः । तच्च भागवते प्रसिद्धम् । मानसत्वं च सर्वेषां मनूनामुक्तं भागवते- 'ततो मनून् ससर्जान्ते मनसा लोकभावनान्'' । इति ।
अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद् भवति । प्रमाणं चोभयविध- वाक्यान्यथानुपपत्तिरेव । पूर्वे इति विशेणाच्च एतत्सिदि्धः । मत्तो भावो येषां ते मद्भावाः । ये ते ब्रह्मणो मनसा जातास्ते मत्त एव जाता इति भावः ॥६ ॥
Gīta Tātparya 10.06
'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृऽताः'' ॥ इति ब्राह्मे ।
'मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृऽताः ।
विप्रादिवर्णभेदेन चत्वारो बहवोपि ते ।
दीनत्वाद् देवनामानस्त्वन्ये ब्रह्मादिनामकाः ।
अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते ।
वैष्णवैस्तु कृतो यज्ञो देवैर्हि मनुनामकैः ।
मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृऽताः ।
तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः ।
तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता'' ॥ इति महाविष्णुपुराणे ॥॥ ६ ॥