Bhagavad Gīta Bhāshya and Tātparya
B.G 9.24
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥२४॥
Gīta Bhāshya 9.24
कारणं आह अविधिपूर्वकत्वे - अहं हीति ॥२४॥
Gīta Tātparya 9.24
मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वात् जानन्तोपि नाभिजानन्ति तत्त्वेन।
"सर्वदेववरत्वेन यो न जानाति केशवम्। तस्य पुण्यानि मोघानि याति चान्धंतमो ध्रुवम्॥"
इति च।
मोघाशा मोघकर्माणः इत्युक्तत्वाच्च न केवलाज्ञविषयं मिथ्याज्ञानिविषयं वा "च्यवन्ति ते" इत्यादि। अतः सर्वाधिक्यं विष्णोः ज्ञात्वाऽपि ब्रह्मादीनां तत्परिवारत्वादिकं अजानतामिदं फलम् ॥२४-२८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.