B.G 9.19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥१९ ॥
[]
Gīta Bhāshya 9.19
Gīta Bhāshya 9.19
'अर्च्यत्वादृक्समत्वाच्च निजरूपेषु साम सः ।
याज्यत्वात् स यजुर्यज्ञः सार्वज्ञ्यात् पुरुषोत्तमः ।
'क्रतुः कृतिस्वरूपत्वात् स्वधानन्यधृतो यतः ।
मानात् त्रातीति मन्त्रोयमुष्टानां निधिरौषधम् ।
आ ज्यायस्त्वादाज्यनामा दर्भोदरधरो यतः ।
अहूतत्वाद्धुतं चायमग्निर्नेतागतेर्यतः'' ॥ इत्यादि च ।
'तत्तत्पदार्थभिन्नोपि तत्तन्नामैवमच्युतः ।
स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम्'' ॥ इति च ।
'ओमित्याक्रियते यस्मादोङ्कारो भगवान् (हरिः) परः'' इति च ।
'पातीति पिता मानान्माता यत् स पितुर्महान् ।
पितामहो निधातृत्वान्निधानं भीतरक्षणात् ।
शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः'' ॥ इति च ।
प्रलयकाले संहर्तृत्वात् प्रलयः । अन्यदापीति मृत्युः'प्राणगः प्राणधर्ता यदमृतं प्रविलापयन् ।
विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात्'' ॥ इति च ।
'सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः ।
यतोतोसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम्'' ॥ इति शब्दनिर्णये ।
॥ १६-१९ ॥ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकं अश्नन्ति दिव्यान् दिवि देवभोगान्॥ २० ॥