Bhagavad Gīta Bhāshya and Tātparya
B.G 9.19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च। अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥१९॥
I am the source of heat, and I withhold and send forth the rain. O Arjuna, know that I encompass both immortality and death, and I am simultaneously the cause and effect.
Gīta Bhāshya 9.19
In the current context 'Sat' means the effect, and 'Asat' is used to mean the cause. Same is substantiated through testimonials.
"सत् कार्यम्। असत् कारनम्। सदभिव्यक्तरुपत्वात् कारणं चापि शब्दितम्॥"
"'Sat' is the effect; 'Asat' is the cause. Because the manifest is of the nature of expression, the cause too is denoted by the term."
इति ह्यभिधानम्।
- Thus indeed is the declaration.
"असच्च सच्चैव यद्विश्वं सदसतः परम्॥"
"That which is the universe, composed of both the unmanifest and manifest, is beyond both cause and effect."
इति च भारते ॥१९॥
- stated thus in the Mahābhārata as well.
Gīta Tātparya 9.19
"अर्च्यत्वादृक् समत्वाच्च निजरूपेषु साम सः। याज्यत्वात् स यजुर्यज्ञः सार्वज्ञ्यात् पुरुषोत्तमः॥ क्रतुः कृतिस्वरूपत्वात् स्वधाऽनन्यधृतो यतः। मानात् त्रातीति मन्त्रोऽयमुष्टानां निधिरौषधम्॥ अज्यायस्त्वादाज्यनामा दर्भो दरभरो यतः। अहूतत्वाद्धुतं चायमग्निर्नेतागतेर्यतः॥"
इत्यादि च।
"तत्तत्पदार्थभिन्नोऽपि तत्तन्नामैवमच्युतः। स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम्॥"
इति च।
"ओमित्याक्रियते यस्मादोङ्कारो भगवान् हरिः॥"
इति च।
"पातीति स पिता मानान्माता यत् पितुर्महान्। पितामहो निधातृत्वात् निधानं भीतरक्षणात्। शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः॥"
इति च।
प्रलयकाले संहर्तृत्वात् प्रलयः। अन्यदापीति मृत्युः।
"प्राणगः प्राणधर्ता यदमृतं प्रविलापयन्। विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात्॥"
इति च।
"सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः। यतोऽतोऽसदितिप्रोक्तं विष्ण्वाख्यं परमं पदम्॥"
इति शब्दनिर्णये ॥१६-१९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.