Bhagavad Gīta Bhāshya and Tātparya
B.G 9.13 and 14
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥
Gīta Bhāshya 9.13 and 14
नेतरे द्विषन्तीति दर्शयितुं देवानाह - महात्मान इत्यादिना ॥१३,१४॥
Gīta Tātparya 9.13 and 14
मानुषीं मनुष्यसदृशीम्।
"तन्वा विष्णुरनन्योऽपि स्वाधीनत्वात् तदाश्रितः।"
इति च।
"ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता। प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता॥ धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः। अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने॥ सर्वं मोघं शुभं तस्य योऽवजानाति केशवम्। अवरं याति च तमः प्रादुर्भावगतोऽप्यतः॥ ज्ञेयः केवलचिद्देहो विदोषः पूर्णसद्गुणः॥"
इति च भविष्यत्पर्वणि ॥११-१४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.