B.G 9.12
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥१२॥
Gīta Bhāshya 9.12
तेषां फलमाह - मोघाशा इति। वृथाशाः भगवद् द्वेषिभिः आशासितं न किञ्चिदाप्यते। यज्ञादिकर्माणि च वृथैव तेषां। ज्ञानं च। केनापि ब्रह्मरुद्रादि प्राप्युपायेन न कश्चित् पुरुषार्थः आमुष्मिकः तैराप्यते। वक्ष्यति च -
"तानहं द्विषतः क्रूरान् संसारेषु"
इत्यादि।
मोक्षधर्मे च -
"कर्मणा मनसा वाचा यो द्विष्यद्विष्णु मव्ययम्। मजन्ति पितरस्तस्य नरके शाश्वतीहि समाः॥ योद्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिं। कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित्॥"
इति।
"सर्वोत्कृष्टे ज्ञानभक्ती हि यस्य नारायणे पुष्करविष्टराद्ये। सर्वावमो द्वेषयुतश्च तस्मिन् भ्रूणामनन्तघ्नोऽस्य समो न चैव॥"
इति च सामवेदे शाण्डिल्य शाखायाम्।
'द्वेषाच्चैद्यादयो नृपाः'
"वैरेण यन्नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविलासविलोकनाद्यैः। ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमीयुरनुरक्तधियः पुनः किम्॥"
इति तु भगवतो भक्तप्रियत्व ज्ञापनार्थम्, नित्यध्यानस्तुत्यर्थं च। स्वभक्तस्य कदाचित्। शापबलात् द्वेषिणोऽपि भक्तिफलमेव भगवान् ददातीति।
भक्ता एव हि पूर्वं शिशुपालादयः। शापबलात् द्वेषिणः। तत्प्रश्नपूर्वं पार्षदत्व शापादिकथनाच्च एतत् ज्ञायते। अन्यथा किमिति तदप्रस्तुत मुच्येते।
भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषं अनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम्। "न मे भक्तः प्रणश्यति" इति वक्ष्यति।
न च "भावो भावकारणम्" इत्यादिविरोधः। द्वेषभाविनां द्वेष एव भवतीति हि युक्तम्। अन्यथा गुरुद्वेषिणामपि गुरुत्वं भवतीति अनिष्टमापद्येत। न च आकृतधीत्वेऽविशेषः। तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः -
"हिरण्यकशिपुश्चापि भगवन्निन्दया तमः। विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः॥"
इति।
"यदनिन्दत् पिता मह्यम्" इत्यारभ्य "तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्॥"
इति प्रह्लादेन भगवतो वरयाचनाच्च।
बहुषु ग्रन्थेषु च निषेधः। कुत्रचिदेव तदुक्तिरिति विशेषः। यस्मिंस्तदुच्यते तत्रैव निषेधः उक्तः। महातात्पर्य विरोधश्च उक्तः पुरस्तात्। अयुक्तिमद्भ्यो युक्त्तिमन्त्येव बलवन्ति वाक्यानि। युक्तयश्चोक्ताः अन्येषाम्। न च एषां काचिद् गतिः। साम्येऽपि वाक्ययोः लोकानुकूल अननुकूलयोः लोकानुकूलमेव बलवत्। लोकानुकूलं च भक्तप्रियत्वं नेतरत्। उक्तं च तेषां पूर्व भक्तत्वम् -
"मन्येऽसुरान् भागवतान् त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्।"
इत्यादि।
अतो न भगवद् द्वेषिणां काचित् गतिः इति सिद्धम्। द्वेषकारणमाह - राक्षसीं इति ॥१२॥