Bhagavad Gīta Bhāshya and Tātparya
B.G 8.09
कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥॥ ९ ॥
Gīta Bhāshya 8.09
ध्येयमाह- कविमिति । कविं सर्वज्ञम् । 'यः सर्वज्ञः'' इति श्रुतिः । 'त्वं कविः सर्ववेदनात्'' इति च ब्राह्मे । धातारं धारणपोषणकर्तारम् । 'डुधाञ् धारणपोषणयोः'' इति धातोः । 'धाता विधाता परमोत सन्दृग्'' इति च श्रुतिः । 'ब्रह्मा स्थाणुः'' इत्यारभ्य 'तस्य प्रसादादिच्छन्ति तदादिष्टफलां गतिम्'' इत्यादेश्च मोक्षधर्मे । तमसोव्यक्तात् परतः स्थितम्- 'तमसः परस्तादिति । अव्यक्तं वै तमः । परस्तादि्ध स ततः'' इति पिप्पलादशाखायाम् । 'मृत्युर्वाव तमः । मृत्युर्वै तमो ज्योतिरमृतम्'' इति श्रुतेः ॥९ ॥
Gīta Tātparya 8.09

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.