B.G 8.08
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥८ ॥
Gīta Bhāshya 8.08
मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तम्- 'मुक्तानां च गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः'' । इति मोक्षधर्मे ॥ ५ ॥ स्मरंस्त्यजतीति भिन्नकालीनत्वेप्यविरोध इति मन्दमतेः शङ्का मा भूदिति 'अन्ते'' इति विशेषणम् । सुमतेर्नैव शङ्कावकाशः । स्मरंस्त्यजतीत्येककालीनत्वप्रतीतेः । दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति भविष्यति शङ्का ।
'त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्'' । इति च स्कान्दे ।
'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति'' । इति हि श्रुतिः ।
सदा तद्भावभावित इत्यन्तकालस्मरणोपायमाह । भावोन्तर्गतं मनः । तथाभिधानात् । भावितत्वमतिवासितत्वम् । 'भावना त्वतिवासना'' इत्यभिधानात् ॥ ६, ७ ॥ सदा तद्भावभावितत्वं स्पष्टयति - अभ्यासेति । अभ्यास एव योगोभ्यासयोगः । दिव्यं पुरुषं पुरिशयं पूर्णं च ।
'स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्'' ॥ इति श्रुतेः ।
दिव्यं सृष्ट्यादिक्रीडादियुक्तम् । 'दिवु क्रीडा-'' इति धातोः ॥८ ॥
Gīta Tātparya 8.08
मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरंस्त्यजतीति केवलतत्कालस्मरणं भवति । न चेत् स्मरतोपि समाधिस्थस्खलनवत् पूर्वकर्मानुसारिस्मृऽत्या तत्प्राप्तिरेव भवति । अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरंस्त्यजतीति भवत्येव । 'प्रयाणकालेपि च मां ते विदुः'' इत्युक्तत्वात् । 'युक्तचेतसः'' इति विशेषणान्नित्यं स्मरतामेवापरोक्षज्ञानं जायते ।
'भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यहरिस्मृऽतेः ।
अरागाद् विहितात्यागादित्येतैरेव संयुतैः ।
अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित्'' ॥ इति सत्तत्त्वे ॥ ५-८ ॥