B.G 8.04
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥
Gīta Bhāshya 8.04
भूतानि सशरीरान् जीवान् अधिकृत्य यत् तत् अधिभूतम्। क्षरो भावः विनाशिकार्यपदार्थः। अव्यक्तान्तर्भावेऽपि तस्यापि अन्यथाभावाख्यः विनाशः अस्त्येव। तच्चोक्तम् -
"अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते॥"
इति।
"तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।"
इति च।
"विकारोऽव्यक्तजन्म हि"
इति च स्कान्दे।
पुरि शयनात् पुरुषः जीवः। स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवान् अधिकृत्य तत्पतिः इति अधिदैवतम्। देवाधिकारस्थः इति वा।
सर्वयज्ञभोक्तृत्वादेरधियज्ञः । अन्योधियज्ञोग्न्यादिः प्रसिद्धः इति देह इति विशेषणम् ।
'भोक्तारं यज्ञतपसाम्'', 'त्रैविद्या माम्'', 'येप्यन्यदेवताभक्ताः'', 'एतस्य वा अक्षरस्य प्रशासने गार्गि'', 'ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः'' । इत्यादेः ।
'कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैश्श्रेयसं परम्'' । इत्यादिपरिहाराच्च ।
॥ मोक्षधर्मे ॥ भगवांश्चेत् तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथङ् नोक्तः । सर्वप्राणिदेहस्थरूपेणाधियज्ञः । अत्रेति स्वदेह- निवृत्त्यर्थम् । नहि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोन्यत् । 'ते ब्रह्म'' इत्युक्त्वा 'साधिभूताधिदैवं मां साधियज्ञं च ये विदुः'' इति परामर्शात् । तस्यैव च प्रश्नात् । साधियज्ञमिति भेदप्रतीतेस्तन्निवृत्त्यर्थम् 'अधियज्ञोहम्'' इत्युक्तम् । मामित्यभेद- प्रतीतेरक्षरमित्येवोक्तम् ।
आह च गीताकल्पे- 'देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः ।
कर्मेश्वरस्य सृष्ट्याख्यं तच्चापीच्छाद्यमुच्यते ।
अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते ।
हिरण्यगर्भोधिदैवं देवः सङ्कर्षणोपि वा ।
ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः'' ॥ इति ।
'यथाप्रतीतं वा सर्वमत्र वै न विरुद्ध्यते'' ॥ इति च ।
'आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते ।
देहाद् बाह्यं विनातीव बाह्यत्वादधिदैवतम् ।
देवाधिकारगं सर्वं महाभूताधिकारगम् ।
तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्'' ॥ इति स्कान्दे ॥ 'अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम् ।
सदेहजीवभूतानि यत् तेषामुपकारकृत् ।
अधिभूतं तु मायान्तं देवानामधिदैवतम्'' ॥ इति महाकौर्मे ॥४ ॥
Gīta Tātparya 8.04
तदिति विशेषणात् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये किञ्चित्; उपरि 'साधियज्ञं च'' इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः 'किं तद् ब्रह्म'' इति प्रश्नकारणम् ॥ १,२ ॥
परमाक्षरं विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव (परिहार इति) परिहरति । अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का 'अव्यक्तं व्यक्तिमापन्नम्" इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देन 'अव्यक्तोक्षर इत्युक्तः'' इति परिह्रियते । 'ये चाप्यक्षरमव्यक्तम्'' इत्यत्र तु पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनात् 'कूटस्थोक्षर उच्यते'' इत्युक्ताक्षरादपि चोत्तमः इति विष्णोरुत्तमत्वकथनाच्चान्यदेवेत्यवसीयते । 'अधियज्ञोहमेव'' इति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थित-रूपान्तरापेक्षया सहितत्वं युज्यते ।
'प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः ।
स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते ।
तैस्तैरधिकयाज्यत्वाद् बृंहितत्वाच्च हेतुतः ।
अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः ।
पुंसां सजडभावानां सर्गः कर्म हरेः स्मृऽतम् ।
भूताधिकत्वतो जीवा अधिभूतमितीरिताः ।
अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा ।
पुरुप्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः'' ॥ इति तत्त्वविवेके ।
कथंरूपोधियज्ञ इति प्रश्नस्तु 'अहमेव'' इत्युक्तत्वात् तल्लक्षणोक्त्यैव परिहृतः ॥॥ ३,४ ॥