Bhagavad Gīta Bhāshya and Tātparya
B.G 8.04
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥
adhibhūtaṁ kṣaro bhāvaḥ puruṣaścādhidaivatam। adhiyajño'hamevātra dehe dehabhr̥tāṁ vara ॥4॥
अधिभूतं क्षरः भावः पुरुषः च अधिदैवतम्। अधियज्ञः अहम् एव अत्र देहे देहभृतां वर॥
अधिभूतं (adhibhūtaṁ) - That which pertains to the perishable elements; क्षरः (kṣaraḥ) - The perishable; भावः (bhāvaḥ) - State or condition; पुरुषः (puruṣaḥ) - The cosmic being; च (ca) - And; अधिदैवतम् (adhidaivatam) - The principle related to the divine or celestial; अधियज्ञः (adhiyajñaḥ) - The principle related to sacrifice; अहम् (aham) - I; एव (eva) - Indeed; अत्र (atra) - Here; देहे (dehe) - In the body; देहभृतां (dehabhṛtāṁ) - Of the embodied beings; वर (vara) - O best one;
The perishable state (kṣaraḥ bhāvaḥ) is called adhibhūta (that which pertains to the physical elements). The cosmic being (puruṣaḥ) is referred to as adhidaivata (the divine principle). I alone am adhiyajña (the principle of sacrifice) here in the body, O best of the embodied beings.
Gīta Bhāshya 8.04
भूतानि सशरीरान् जीवान् अधिकृत्य यत् तत् अधिभूतम्। क्षरो भावः विनाशिकार्यपदार्थः। अव्यक्तान्तर्भावेऽपि तस्यापि अन्यथाभावाख्यः विनाशः अस्त्येव। तच्चोक्तम् -
bhūtāni saśarīrān jīvān adhikr̥tya yat tat adhibhūtam। kṣaro bhāvaḥ vināśikāryapadārthaḥ। avyaktāntarbhāve'pi tasyāpi anyathābhāvākhyaḥ vināśaḥ astyeva। taccoktam -
[भूतानि (bhūtāni) - Beings; सशरीरान् (saśarīrān) - Embodied; जीवान् (jīvān) - Living entities; अधिकृत्य (adhikṛtya) - With reference to; यत् (yat) - That which; तत् (tat) - That; अधिभूतम् (adhibhūtam) - Related to the physical or perishable elements; क्षरः (kṣaraḥ) - Perishable; भावः (bhāvaḥ) - Existence or condition; विनाशि-कार्य-पदार्थः (vināśi-kārya-padārthaḥ) - Object subject to destruction or perishable entity; अव्यक्त (avyakta) - The unmanifest / insentient; अन्तर्भावेऽपि (antarbhāve'pi) - Even when included; तस्यापि (tasyāpi) - Of that also; अन्यथा-भाव-आख्यः (anyathā-bhāva-ākhyah) - Change of state or transformation; विनाशः (vināśaḥ) - Destruction; अस्ति (asti) - Exists; एव (eva) - Certainly; तत् (tat) - That; च (ca) - And; उक्तम् (uktam) - Is said;]
The word 'bhūtāni' means embodied living entities, and that which is meant for their use is called 'adhibhūtam' (the physical or perishable elements). Phrase 'kṣaro bhāvaḥ' refers to objects subject to destruction or perishable entities. Even in the insentient (avyakta), a transformation or change of state (anyathā-bhāva-ākhyah) leading to destruction is inevitable. This has indeed been stated -
"अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते॥"
"avyaktaṁ parame vyomni niṣkriye sampralīyate॥"
[अव्यक्तं (avyaktaṁ) - The unmanifest / insentient; परमे (parame) - In the supreme; व्योम्नि (vyomni) - In the space (often referring to the transcendental or spiritual realm); निष्क्रिये (niṣkriye) - In the actionless or inactive (beyond action); सम्प्रलीयते (sampralīyate) - Merges completely or dissolves;]
"The insentient (avyakta) of the form of actionless space merges completely into the supreme (during final destruction of the universal)."
इति।
iti।
[इति (iti) - Thus;]
- stated thus.
"तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।"
"tasmādavyaktamutpannaṁ triguṇaṁ dvijasattama।"
[तस्मात् (tasmāt) - Therefore; अव्यक्तम् (avyaktam) - The insentient; उत्पन्नम् (utpannam) - Arisen; produced; त्रिगुणम् (triguṇam) - Possessing the three qualities (sattva, rajas, tamas); द्विजसत्तम (dvijasattama) - O best among the twice-born;]
"Therefore, O best among the twice-born, the insentient (avyakta) has arisen, possessing the three qualities."
इति च।
iti ca।
[इति (iti) - Thus; च (ca) – And, even;]
- stated thus as well.
"विकारोऽव्यक्तजन्म हि"
"vikāro'vyaktajanma hi"
[विकारः (vikāraḥ) - Transformation; modification; अव्यक्तजन्म (avyakta-janma) - Born of the unmanifest; हि (hi) - Indeed; certainly;]
"The distorted transformation (vikāraḥ) is indeed born from the unmanifest, i.e. avyakta."
इति च स्कान्दे।
iti ca skānde।
[इति (iti) - Thus; च (ca) - And; स्कान्दे (skānde) - In the Skanda Purāṇa;]
- stated thus in the Skanda Purāṇa.
पुरि शयनात् पुरुषः जीवः। स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवान् अधिकृत्य तत्पतिः इति अधिदैवतम्। देवाधिकारस्थः इति वा।
puri śayanāt puruṣaḥ jīvaḥ। sa ca saṅkarṣaṇo brahmā vā। sa sarvadevān adhikr̥tya tatpatiḥ iti adhidaivatam। devādhikārasthaḥ iti vā।
[पुरि (puri) - In the body (city-like structure); शयनात् (śayanāt) - Due to residing; पुरुषः (puruṣaḥ) - The individual soul; जीवः (jīvaḥ) - The living entity; स (sa) - He; च (ca) - And; सङ्कर्षणः (saṅkarṣaṇaḥ) - Saṅkarṣaṇa (a form of Lord Viṣṇu or Baladeva); ब्रह्मा (brahmā) - Or Brahmā; वा (vā) - Or; स (sa) - He; सर्वदेवान् (sarvadevān) - All the deities; अधिकृत्य (adhikṛtya) - Having control over; तत्पतिः (tatpatiḥ) - The lord of that; इति (iti) - Thus; अधिदैवतम् (adhidaivatam) - Is called the principle governing the divine; देव-अधिकारस्थः (deva-adhikārasthaḥ) - One established in the position of ruling over the deities; इति (iti) - Thus; वा (vā) – Or;]
The individual being, i.e. 'jīvaḥ', is called 'puruṣaḥ' because it resides in the body, the 'puri'. So is the case with the lord Saṅkarṣaṇa, the form of Brahmā as well (i.e. the lord as well resides in the city of the Body called 'puri', hence he is also called 'purusha'). He, having control over all the deities, is referred to as their lord, and thus is known as 'adhidaivatam', the divine underlying principle. Also, because he commands and rules over all the deities.
सर्वयज्ञभोक्तृत्वादेरधियज्ञः । अन्योधियज्ञोग्न्यादिः प्रसिद्धः इति देह इति विशेषणम् । 'भोक्तारं यज्ञतपसाम्'', 'त्रैविद्या माम्'', 'येप्यन्यदेवताभक्ताः'', 'एतस्य वा अक्षरस्य प्रशासने गार्गि'', 'ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः'' । इत्यादेः । 'कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैश्श्रेयसं परम्'' । इत्यादिपरिहाराच्च । ॥ मोक्षधर्मे ॥ भगवांश्चेत् तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथङ् नोक्तः । सर्वप्राणिदेहस्थरूपेणाधियज्ञः । अत्रेति स्वदेह- निवृत्त्यर्थम् । नहि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोन्यत् । 'ते ब्रह्म'' इत्युक्त्वा 'साधिभूताधिदैवं मां साधियज्ञं च ये विदुः'' इति परामर्शात् । तस्यैव च प्रश्नात् । साधियज्ञमिति भेदप्रतीतेस्तन्निवृत्त्यर्थम् 'अधियज्ञोहम्'' इत्युक्तम् । मामित्यभेद- प्रतीतेरक्षरमित्येवोक्तम् । आह च गीताकल्पे- 'देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः । कर्मेश्वरस्य सृष्ट्याख्यं तच्चापीच्छाद्यमुच्यते । अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते । हिरण्यगर्भोधिदैवं देवः सङ्कर्षणोपि वा । ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः'' ॥ इति । 'यथाप्रतीतं वा सर्वमत्र वै न विरुद्ध्यते'' ॥ इति च । 'आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते । देहाद् बाह्यं विनातीव बाह्यत्वादधिदैवतम् । देवाधिकारगं सर्वं महाभूताधिकारगम् । तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्'' ॥ इति स्कान्दे ॥ 'अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम् । सदेहजीवभूतानि यत् तेषामुपकारकृत् । अधिभूतं तु मायान्तं देवानामधिदैवतम्'' ॥ इति महाकौर्मे ॥४ ॥
Gīta Tātparya 8.04
तदिति विशेषणात् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये किञ्चित्; उपरि 'साधियज्ञं च'' इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः 'किं तद् ब्रह्म'' इति प्रश्नकारणम् ॥ १,२ ॥
परमाक्षरं विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव (परिहार इति) परिहरति । अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का 'अव्यक्तं व्यक्तिमापन्नम्" इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देन 'अव्यक्तोक्षर इत्युक्तः'' इति परिह्रियते । 'ये चाप्यक्षरमव्यक्तम्'' इत्यत्र तु पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनात् 'कूटस्थोक्षर उच्यते'' इत्युक्ताक्षरादपि चोत्तमः इति विष्णोरुत्तमत्वकथनाच्चान्यदेवेत्यवसीयते । 'अधियज्ञोहमेव'' इति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थित-रूपान्तरापेक्षया सहितत्वं युज्यते । 'प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः । स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते । तैस्तैरधिकयाज्यत्वाद् बृंहितत्वाच्च हेतुतः । अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः । पुंसां सजडभावानां सर्गः कर्म हरेः स्मृऽतम् । भूताधिकत्वतो जीवा अधिभूतमितीरिताः । अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा । पुरुप्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः'' ॥ इति तत्त्वविवेके । कथंरूपोधियज्ञ इति प्रश्नस्तु 'अहमेव'' इत्युक्तत्वात् तल्लक्षणोक्त्यैव परिहृतः ॥॥ ३,४ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.