Bhagavad Gīta Bhāshya and Tātparya
B.G 8.01, 02, 03
अर्जुन उवाच,
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥१॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥२॥
श्रीभगवानुवाच, अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥३॥
Gīta Bhāshya 8.01, 02, 03
॥ हरिः ॐ ॥
मरणकालकर्तव्यगत्यादि अस्मिन् अध्याये उपदिशति। परमम् अक्षरं परं ब्रह्म। वेदादिशङ्काव्यावृत्त्यर्थम् एतत्। आत्मनि अधि यत् तत् अध्यात्मम्। 'आत्माधिकारे' यत् तत् इति वा। तथाहि जैवः स्वभावः। स्वाख्यो भावः इति व्युत्पत्त्या जीवो वा स्वभावः। सर्वदा अस्त्येव एकप्रकारेण इति भावः। अन्तःकरणादि व्यावृत्त्यर्थः भावशब्दः। न हि एकप्रकारेण स्थितिः अन्तःकरणादेः। विकारित्वात्। स्वशब्दः ईश्वरव्यावृत्त्यर्थः।
भूतानां जीवानां। भावानां जडपदार्थानां च उद्भवकरेश्वरक्रिया विसर्गः। विशेषेण सर्जनं विसर्ग इत्यर्थः ॥ १-३ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.