Bhagavad Gīta Bhāshya and Tātparya
B.G 7.27
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥२७॥
Gīta Bhāshya 7.27
द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन। इच्छाद्वेषयोः प्रवृद्धयोः न हि किञ्चित् ज्ञातुं शक्यम्। कारणान्तरम् एतत्। सर्गे सर्गकालं आरभ्यैव। शरीरे हि सति इच्छादयः। पूर्वं तु अज्ञानमात्रम् ॥२७॥
Gīta Tātparya 7.27
द्वन्द्वमोहो मिथ्याज्ञानम्।
"तमस्तु शार्वरं विद्यात् मोहश्चैव विपर्ययः।"
इति भारते।
जीवेश्वरादिकं द्वन्द्वम्। तद्विषयो मोहः द्वन्द्वमोहः। सम्मोहः तदाग्रहः।
"तदाग्रहो महामोहः तामिस्रः क्रोध उच्यते।"
इत्युक्तत्वात्।
सर्गे सर्गकाले एव।
"जीवधर्मानीश्वरे तु यो जीवेषु ऐश्वरानपि। विद्याज्जीवेश्वरैक्यं वा द्वन्द्वमोही स उच्यते॥"
इत्याग्नेये ॥२७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.