Bhagavad Gīta Bhāshya and Tātparya
B.G 7.11
बलं बलवतामस्मि कामरागविवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥
Gīta Tātparya 7.11
नित्यपूर्णबलत्वात्तु बलम् कामविवर्जितः। अराजसबलश्चैव स्थानेभोऽन्येष्वयोजनात्॥
एतादृशबलात्माऽसौ बलिनां बलदः स्वयम्। वेति पूर्णत्ववाची स्यात् तद्रतेः बलमुच्यते॥
प्रायो हि कामिता अर्था धर्मं हन्युर्हरिः पुनः। न धर्महानिकृत् किन्तु कामितो धर्मवृद्धिकृत्॥
धर्माविरुद्धकामोऽतो विष्णुर्भूतेषु संस्थितः। एवं स सर्वतश्चान्यः स्वतन्त्रश्चैव सर्वगः। व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ॥११॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.