B.G 7.08
रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८॥
Gīta Bhāshya 7.08
इदं ज्ञानम्। रसोऽहम् इत्यादि विज्ञानम्। अबादयोऽपि तत एव। तथापि रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोऽपि स एव नियामकः। न तु अबादि नियमानुबद्धो रसादिः तत्सारत्वादिश्च इति दर्शयति 'अप्सुरसः' इत्यादिविशेषशब्दैः। भोगश्च विशेषतो रसादेः इति च। उपासनार्थं च। उक्तं च गीताकल्पे -
"रसादीनां रसादित्वे स्वभावत्वे तथैव च। सारत्वे सर्वधर्मेषु विशेषेणापि कारणम्॥
सारभोक्ता च सर्वत्र यतोऽतो जगदीश्वरः। रसादिमानिनां देहे स सर्वत्र व्यवस्थितः॥
अबादयः पार्षदा एव ध्येयः स ज्ञानिनां हरिः। रसादिसम्पत्त्यान्येषां वासुदेवो जगत्पतिः॥"
इति।
"स्वभावो जीव एव च",
"सर्वस्वभावो नियतस्तेनैव किमतः परम्"
"न तदस्ति विना यत् स्यान्मया भूतं चराचरम्॥"
इति च।
'धर्माविरुद्धः', 'कामरागविवर्जितम्', इत्यादि उपासनार्थम्। उक्तं च गीताकल्पे -
"धर्माविरुद्धः कामेऽसौ उपास्यः काममिच्छता। विहीने कामरागादेर्बले च बलमिच्छता। ध्यातस्तत्र त्वनिच्छद्भिः ज्ञानमेव ददाति च॥"
इत्यादि।
Gīta Tātparya 7.08
"सोऽप्सु स्थित्वा रसयति रसनामा ततः स्मृतः। सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात्। वेदस्थः प्रणवाख्योऽसौ आत्मानं यत्प्रणौत्यतः। खे स्थितः शब्दनामाऽसौ यच्छब्दयति केशवः" ॥८॥