B.G 7.09
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥
Gīta Bhāshya 7.09
पुण्यो गन्धः इति भोगापेक्षया च। तथाहि श्रुतिः -
"पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति"
"ऋतं पिबन्तौ सुकृतस्य लोके"
इत्यादिका।
ऋतं च पुण्यम् -
"ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते"
इत्यभिधानात्।
"ऋतं तु मानसो धर्मः सत्यं स्यात् सम्प्रयोगगः"
इति च। न च
"अनश्नन्नन्यः अभिचाकशीति", "अन्यो निरन्नोऽपि बलेन भूयान्"
इत्यादिविरोधि। स्थूलानशनोक्तेः। आह च सूक्ष्माशनम् -
"प्रविविक्ताहारतरः इव एष भवत्यस्माच्छारीरादात्मनः"
इति। न चात्र जीव उच्यते। 'शारीरादात्मनः' इति भेदाभिधानात्। स्वप्नादिश्च शारीरे एव -
"शारीरस्तु त्रिधा भिन्नो जाग्रदादिष्ववस्थितेः"
इति वचनात् गारुडे।
'अस्मात्' इति ईश्वरव्यावृत्त्यर्थम् -
"शारीरौ तौ उभौ ज्ञेयौ जीवश्चेश्वरसञ्ज्ञितः। अनादिबन्धनस्त्वेको नित्यमुक्तस्तथापरः॥"
इति वचनान्नारदीये।
भेदश्रुतेश्च। सति गत्यन्तरे पुरुषभेद एव कल्प्यः न तु अवस्थाभेदः। आह च -
"प्रविविक्तभु ग्यतो ह्यस्माच्छारीरात्पुरुषोत्तमः। अतोऽभोक्ता च भोक्ता च स्थूलाभोगात्स एव तु॥"
इति गीताकल्पे ॥९॥
Gīta Tātparya 7.09
पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः। तेजयत्यग्निसंस्थः सन् भूतस्थो जीवनप्रदः॥
तपस्विस्थः तपयति … ॥९॥