The Prescribed Procedure for the Ascetic’s Praṇava (यतिप्रणवकल्पः)
समिच्चर्वाज्यकान्हुत्वा सम्यक्पुरुषसूक्ततः। सर्वेषामभयं दत्त्वा विरक्तः प्रव्रजेद्धरिम् ॥१॥
~~~
श्रुत्वा भागवतं शुद्धमाचार्यं शरणं व्रजेत्। अधीहि भगवो ब्रह्मेत्यस्मै ब्रूयाद्गुरुः परम् ॥२॥
~~~
उच्चारयेत्त्रिशस्तारं दक्षिणे श्रवणे तथा। ऋषिच्छन्दोदैवतानि ब्रूयात्तस्य क्रमात्सुधीः ॥३॥
~~~
अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात्। विश्वश्च तैजसः प्राज्ञस्तुर्यश्चाक्षरदेवताः ॥४॥
~~~
कृष्णो रामो नृसिंहश्च वराहो विष्णुरेव च। परञ्ज्योतिः परम्ब्रह्म वासुदेव इति क्रमात् ॥५॥
अकारादेस्तथा शान्तातिशान्तान्तस्य देवताः। एवमुक्त्वा तु तद्ध्यानं ब्रूयाच्छिष्याय सद्गुरुः ॥६॥
~~~
अष्टपत्रे तु हृत्पद्मे मध्ये सूर्येन्दुवह्निगम्। पीठं तत्पद्ममध्यस्थं नारायणमनामयम् ॥७॥
~~~
उद्यदादित्यसङ्काशं तेजसानुपमं सदा। सहस्रेणापि सूर्याणां सञ्ज्ञानानन्दरूपिणम् ॥८॥
~~~
अतिरक्ततलं भास्वन्नखव्रातविभूषितम्। वृत्तजङ्घं वृत्तजानुं हस्तिहस्तोरुमीश्वरम् ॥९॥
~~~
महाकटितटाबद्धकाञ्चीपीताम्बरोज्ज्वलम्। सुनिम्ननाभिं त्रिवलिं सुवृत्तोदरबन्धनम् ॥१०॥
~~~
विशालवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्। वनमालाधरं हारवैजयन्त्यादिभिर्युतम् ॥११॥
~~~
पृथुदीर्घचतुर्बाहुं शङ्खचक्रगदाम्बुजैः। युक्तमुन्निद्रपद्माक्षं स्फुरन्मकरकुण्डलम् ॥१२॥
~~~
पूर्णचन्द्रायुतोद्रिक्तकान्तिमन्मुखपङ्कजम्। सुभ्रुवं सुललाटान्तं किरीटाबद्धमूर्धजम् ॥१३॥
~~~
निःशेषदुःखदमनं नित्यानन्दशुचिस्मितम्। विश्वादींश्चैव कृष्णादीनेवं भूतान्सनातनान् ॥१४॥
अभिन्नानेव सततं तस्माद्विष्णोः परात्मनः। वराभयोद्यतकरान्नित्यानन्दैकरूपिणः ॥१५॥
~~~
एवमुक्त्वा गुरुर्ध्यानं शपथं कारयेत्ततः। न विष्णुं वैष्णवांश्चैव विसृजेयमिति त्रिशः ॥१६॥
~~~
न चान्यदेवतासाम्यं तदैक्यमथवा हरेः। चिन्तयेयं मृतो वापि न चाप्येकत्ववादिभिः ॥१७॥
समत्ववादिभिर्वाहं सङ्गच्छेयं कदाचन। तन्निन्दकैश्च तद्भक्तनिन्दकैर्वा महामुने ॥१८॥
~~~
एवं कृते तु शपथे मस्तके हस्तपङ्कजम्। निधायोत्तीर्य संसारात्सुखी भव हरेः प्रियः ॥१९॥
~~~
सर्वदुःखादिभिर्मुक्तो नित्यानन्दैकरूपिणः। सम्प्राप्य विष्णुसामीप्यं तत्रापि हरिभक्तिमान् ॥२०॥
भक्तिमांश्चान्यदेवेषु तारतम्यं च संस्मरन्। सर्वोत्कर्षं स्मरन्विष्णोर्भूयाश्चैव सदा सुखी ॥२१॥
~~~
न मुक्तौ विष्णुनैक्यं वा मुक्तानां साम्यमेव वा। स्मरेथा इति चोक्त्वाथ समयाननुशिक्षयेत् ॥२२॥
~~~
नित्यशश्च हरेः पूजा जपध्यानसमर्पणम्। कर्तव्यं तु त्वया वत्स जपश्च त्रिसहस्रकः ॥२३॥
~~~
मध्यमः प्रणवस्योक्तो योऽवरः स सहस्रकः। त्रिसहस्रात्परो यस्तु स उत्तमजपः स्मृतः ॥२४॥
~~~
आत्मानं प्रतिबिम्बत्वे ध्यायन् बिम्बं जनार्दनम्। ध्यायस्व सततं वत्स सपर्यां नित्यशः कुरु ॥२५॥
मानसैर्वाथ पुष्पैर्वा प्रणवेन समाहितः। अन्यांश्च वैष्णवान्मन्त्राञ्जपेथा भक्तिपूर्वकम् ॥२६॥
~~~
शृणुष्व वैष्णवं शास्त्रं सदा वेदार्थतत्परः। वेदान्मन्त्रानुपनिषत्सहितान्सर्वदा शृणु॥२७॥
इतिहासपुराणं च पञ्चरात्रं तथैव च। तदर्थान् ब्रह्मसूत्रैश्च सम्यङ्निर्णीय तत्त्वतः। विष्णोः सर्वोत्तमत्वं च सर्वदा प्रतिपादय ॥२८॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः यतिप्रणवकल्पः समाप्तः॥