Upādhikhaṇḍanam (उपाधिखण्डनम्)
उपाधिखण्डनम्
नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः । अशेषदोषरहितः प्रीयतां कमलालयः ॥१॥
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन । उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥२॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् । अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥३॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥४॥
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥५॥
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥६॥
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥७॥
नानादेहगभोगानुसन्धानं योगिनो यथा । न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥८॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा । सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥९॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता । तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥१०॥
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः । प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥११॥
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते । अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥१२॥
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥१३॥
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः । ‘सत्यः सो अस्य महिमे’ (ऋ.सं.८.३.४) त्यादिवाक्यान्मृषा न च ॥१४॥
न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न । अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥१५॥
अतो नाज्ञातमिति च विषयो विषयान्तरे । अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥१६॥
दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥१७॥
अतो ‘परो मात्रये’ (ऋ.सं.७.९९) ति पूर्वश्रुतिनिदर्शितः । ‘अन्यमीश’(श्वे.उ.४.७) मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’ (आथ.उ.३.१.३) ति श्रुतेः सदा ॥१८॥
मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥१९॥
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्याऽनन्दभोजनदायिने ॥२०॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं समाप्तम् ॥